________________
है० ४.१.६० ॥
अष्टमः सर्गः।
६२७
मां रिरावयिषता कटकेनारील्लिलावयिषतीह सहेलम् । को विभावयिपति स न सख्यं कः शुशावयिषति स्म न भक्तिम्
६६. कः सख्यं चेदिना सह मैत्री न बिभावयिषति स्म भावयितुमिच्छति स्म। सर्वोपि मृत्युभयात्सख्यं चिकीर्षति स्मेत्यर्थः । तथा को भक्ति न शुशावयिषति स्म नाविवर्धयिषत् । क सति । इह चेदौ । किभूते । क्षमा रिरावयिषता पादाघातैः शब्दायमानां प्रयोक्तुमिच्छता कटकेन क; सहेलं लीलयैवारील्लिलावयिषति छेदयितुमिच्छति । एतेन यात्रारम्भिण्यप्यस्मिन्सपि नृपा वशीभूता इत्युक्तम् ॥ अनेनिजु । अवेविजुः। अचेविषुः । अन्न “निजां शित्येत्'' [५७] इति पूर्वस्यैत् ॥ पिपर्ति । इयर्ति । बिभर्ति । मिमीते । जिहीते । अत्र “पृभृ' [५८ ] इत्यादिना पूर्वस्य-इः॥ मिमासति । इत्यत्र "सैन्यस्य" [५९] इति-इः॥
जिजावयिपुः । संयियविपुः । रिरावयिषता । लिलावयिषति। बिभावयिषति। इत्यत्र "ओर्जान्तस्था" [६०] इत्यादिना-इः ॥ ननु ण्यन्तानां - यावादेशयोः कृतयोदित्वे सति पूर्वस्योकारान्तता न संभवति । तत्र "सन्यस्य" [५९] इत्यनेनैव सिद्ध किं गुरुणा सूत्रेण । एतावत्तु विधेयम् । मोः पयेवर्ण इति । पिपविषते । यियविषतीत्यत्र पूर्वस्योकारान्तस्येस्वं यथा स्यात् । सत्यम् । णौ यत्कृतं कार्य तत्सर्व स्थानिवदिति न्यायज्ञापनार्थम् । तेन शुशावयिषतीत्यादि सिद्धम् ।। १५ शुभाव'.
१ सी डी °था मक्ति को न. २ प शुभावायि. ३ ए बी त् । १. ४ सी पादघा. ५ ए हे लील'. ६ ए वारीष्ठि'. ७सी डी 'यितु. ८ ए विपुः । अ. ९ ए. जो सत्ये . बी जा शेत्ये'. १० बी स्यैतद. ११ बी सनस्य, १२ सी यिषु । स. १३ एत्र ऊर्जा. १४ सी ततत्त'.
-