________________
६२०
व्याश्रयमहाकाव्ये [भीमराजः] यस्तवारिररियर्ति तमेषोर्यति तांस्त्वदुदयं न य ईपुः। ताजहार विदुधाव चखानादिद्युनन्परिजगुर्य इह त्वाम् ॥५६॥
५६. यस्तवारिस्तमेप सिन्धुपतिररियर्त्यत्यर्थं गच्छति त्वदरिं मित्रीकगेतीत्यर्थः । तथा येन्यायिनश्चरटाद्यास्त्वदुदयं तवोन्नति स्वविनाशाशङ्कया नेपुस्तानति । तथा तांस्त्वन्मित्रादीनसौ जहार सर्वस्वापहारेणालुण्टयद्विदुधावेतस्ततो व्यक्षिपञ्चखान व्यदारयत् । य इह सिन्धुदशे त्वां परिजगुर्गुणग्रहणेनाकीर्तयन्नत एवादिद्युतन्प्रकटीचक्रुः ॥
देहि । अवधेहि । इत्यत्र "हौ दः" [३१] इत्येन्न चायं द्विः ॥ न च द्विरिस्युक्तेः कृतमपि द्वित्वं निवर्तते । तेन यङ्लुप्यपि देहीति स्यात् ॥ दिग्ये । अत्र "देर्दिगिः" [३२] इत्यादिना दिग्यादेशः ॥ अपीप्यत् । इत्यत्रं " पिवः पीप्य्" [३३] इति पीप्यू ॥ प्रजिघाय । निघांसु । इत्यत्र "अछे हि" [३४] इत्यादिना मूलहस्य घः॥ अरु इति किम् । प्राजीहयत् ॥ जिगीषति । जिगाय । इत्यत्र "जेर्गिः" [३५] इत्यादिना गिः ॥ चिकीर्षु निश्चिचीपति । अपचिकाय निश्चिचाय । इत्यत्र "चेः किर्वा" [३६] इति वा किः ॥
इयेष । उवोष । इयर्ति । इत्यत्र “पूर्वस्य” [ ३७] इत्यादिना-इयुवौ । अर्तेर्यङ्लुपि द्वित्वे पूर्वस्याकारे "रिरौ च लुपि” [४.१.५६ ] इति रिरी-आगमे तदिवर्णस्य चेयभावे सति अरियति । एक स्वत्रेयं नेच्छन्ति । अति । तन्मत
१ ए रियर्त्य. २ ए "दिगुधा'. ३ईसी व्यक्षेप. ४ सी त्र दे दि. ५ ए पीप्य ॥. ६वी प्रतिजि . ७डी 'ना पूर्वह. ८बी कीर्षु नि । ९ सी वा दिः ॥१. १० सी त्याका. ११ बी चेयभा. १२ डा ति। त.