________________
[है० ४.१.४३.] अष्टमः सर्गः।
६२१ संग्रहार्य पूर्वस्येति योः समानाधिकरणं विशेषण तेनेकारोकारमात्रस्यैव पूर्वस्ये. युवौ ॥ अस्व इति किम् । ईपुः ॥ जहार । इत्यत्र "ऋतोत्" [३८]इति ऋतोत् ॥ परिजगुः । विदुधाव । इत्यत्र "हूस्व." [३९] इति हैस्वः॥ परिजगुः । जहार । इत्यत्र “गहोर्ज." [४०] इति जः ॥ अदिद्युतन् । इत्यत्र “धुतेरिः" [ ४१ ] इति-इः ॥ चखान । विदुधाव । इत्यत्र "द्वितीय" [१२] इत्यादिनाद्यतृतीयौ ॥ नो ऋतिच्छिषति सामनि तिष्ठेवाभ्यचिच्छिषति किं तु स दण्डे । छीचकार स यदा परिटिष्ठेवाथ जीव बुङवे नृपचक्रम् ॥ ५७॥
५७. स सिन्धुपतिरुद्धतत्वात्सामनि सान्त्वनोपाये नोऋतिच्छिषति । न जिगमिषति । ऋच्छ गतावप्यन्ये । तथा सामन्येव विषये तिष्ठेवावज्ञया थूञ्चकार । तर्हि क जिगमिषतीत्याह । किं तु दण्डेन्त्योपायेभ्यचिच्छिषत्याभिमुख्येन यियासति । अत एव स सिन्धुपतिर्यदा छीचकार चुक्षावाथाथ वा यदा परिटिष्ठेव थूत्कृतवांस्तदा नृपचक्रं जीव बुडवे बभाषे । जीवेति कर्मपदमनुकरणम् । अनुकार्यानुकरणयोरभेदविवक्षया द्वितीयाया अभावः । यद्वात्रेति शब्दोगम्यः । जीवेत्युवाचेत्यर्थः ।।
तिष्ठेव टिष्ठेव । इत्यत्र "तिर्वा छिवः" [४३] इति वा तिः ॥ केचितु "खरेभ्यः" [१.३.३० ] इति द्विरुक्तस्य छस्य द्वित्वे सति पूर्वस्य स्यादेशमिच्छन्ति । तन्मते ऋतिच्छिषति इति स्यात् ।।
१ बहुषु पुस्तकेषु छिव् इति धातो रूपाणां सानेषु न इलत्र द इति दृश्यते । १डी त्रस्ये. २ सी ति रितो'. ३ ए हस्व ॥. ४ सी डी च्छन् ग. ५ए येभ्यचि.