________________
[है० ४.१.४३.] अष्टमः सर्गः।
६२१ संग्रहार्थ पूर्वस्येति योः समानाधिकरणं विशेषणं तेनेकारोकारमावस्यैव पूर्वस्खे. युवौ ॥ अस्व इति किम् । ईपु.॥
जहार । इत्यन्न "ऋतोत्" [३८]इति ऋतोत् ॥ परिजगुः । विदुधाव । इत्यत्र "हस्वः" [३९] इति हैस्वः ॥ परिजगुः । जहार । इत्यत्र "गहोर्ज." [४०] इति जः ॥ अदिद्युतन् । इत्यत्र "द्युतेरिः" [ ४१ ] इति-इः ॥ चखान । विदुधाव । इत्यत्र "द्वितीय" [४२] इत्यादिनायतृतीयौ ॥ नो ऋतिच्छिषति सामनि तिष्ठेवाभ्यचिच्छिषति किं तु स दण्डे । छीच्चकार स यदा परिटिष्ठेवाथ जीव बुङवे नृपचक्रम् ॥ ५७॥
५७. स सिन्धुपतिरुद्धतत्वात्सामनिसान्त्वनोपाये नोऋतिच्छिपति । न जिगमिषति । ऋच्छ गतावप्यन्ये । तथा सामन्येव विषये तिष्ठेवावज्ञया थूञ्चकार । तर्हि व जिगमिषतीत्याह । किं तु दण्डेन्त्योपायेभ्यचिच्छिषत्याभिमुख्येन यियासति । अत एव स सिन्धुपतिर्यदा छीचकार चुक्षावाथाथ वा यदा परिटिष्ठेव थूत्कृतवांस्तदा नृपचक्रं जीव बुडुचे बभाषे । जीवेति कर्मपदमनुकरणम् । अनुकार्यानुकरणयोरभेदविवक्षया द्वितीयाया अभावः। यद्वाति शब्दोगम्यः । जीवेत्युवाचेत्यर्थः ।
तिष्ठेव टिष्ठेव । इत्यन्न "तिर्वा ठिवः" [४३ ] इति वा तिः ॥ केचित्तु "खरेभ्यः" [१.३.३०] इति द्विरुक्तस्य छस्य द्वित्वे सति पूर्वस्य त्यादेशमिच्छन्ति । तन्मते ऋतिच्छिषति इति स्यात् ॥
-
१ बहुषु पुस्तकेषु ष्ठित् इति धातो रूपाणां स्थानेषु न इत्लन द इति दृश्यते ।
१डी त्रस्ये. २ सी ति रितो'. ३ ए हस्व ॥. ४ सी डी ग. ५ए 'येभ्यचि.
छत