________________
१८
व्याश्रयमहाकाव्ये
[मूलराजः] मात्रवाची । ओष्ठयोः स्थूलः स्थूलत्वं यासां ता ओष्ठस्थूला न । यद्वा । गुणिवचनः स्थूलशब्दः । नौष्ठाभ्यां स्थूलाः । न स्थूलोष्ठय इत्यर्थः ॥
दीर्घोष्ठाः हस्वीष्ठाः । वृद्धोतु भौंतु । इत्यत्र "तोष्ठौतौ समासे" [10] इति वालुक् ॥ समास इति किम् । नौष्ठस्थूलाः । नौतुनेत्राः ॥
अत्रोपैति जनः खोढां न पोखति परस्त्रियम् । मलितः श्रोत्रियोङ्कारैर्धर्मश्चास्मिन्नुपैधते ॥ २० ॥ २०. अत्र पुरे जनो लोकः स्वोढां स्खेनौढामात्मना परिणीतामुपैत्युपगच्छति । सेवत इत्यर्थः । ननु स्वदारांस्तावत्सेवते परदारानपि सेविष्यत इत्याह । परस्त्रियं परेणोढां नारी न प्रोखति धार्मिकत्वान गच्छति । अत एवास्मिन्पुरे धर्मश्च न केवलमुक्तनीत्या कामः किं त्वाधपुमर्थोप्युपैधते वर्धते । परस्त्रीवर्जनं हि परमधर्मवृद्धिनिबन्धनं स. वंशास्त्रेपु गीयते । उत्प्रेक्ष्यते । श्रोत्रियोंकारैः प्रेलित इव । श्रोत्रियाणां यष्ट्रणां यागादिविधिकाल उच्चारणेन संबन्धिनो य ओंकाराः प्रणवास्तै: प्रेरित इव प्रेरितो वर्धस्व वर्धस्वेति दत्तानुमतिक इवेत्यर्थः । अत्रत्यलोकस्य परदारवर्जकत्वेन धर्मः स्वयमेव वर्धते श्रोत्रियैश्च यागादिविधौ वेदमभानुचारयद्भिः स्थाने स्थान ओंकारा उच्चार्यन्ते तेषां चानुमतेरप्यर्थस्य दर्शनादेवमुत्प्रेक्षा । अत्रोत्प्रेक्षा साक्षादनुक्तापि वाक्यार्थसामोदवसीयत इति । नवविधे विषय इवादिशब्दप्रयोगमन्तरेणासंवद्धतैवेति शक्य पत्तम् । गमकत्वात् । अन्यत्रापि तदप्रयोगे तदर्थावगतिदर्शनात् । यथा माघकाव्ये।
बी पोहोती. सी डी "वोटोतो. २ एफ पति सं. ३ एफ °पि न से १ एफ 'प. पु. ५ वी 'रम ५ ६ सी डी एफ 'त्प्रेक्षते. ७सीडी शनि 1 मो. ८ सी सी 'पा या ९ए प्रलो. १० एफ मोबा ११ सीरीक्षा मा. १२ एफ व विष'.