________________
[ है०४.१.२५] अष्टमः सर्गः।
६१३ खेनुरेषु पफणुस्तव मृताः सस्खनुस्तव गुणांश्च विफेणुः। तत्रमुः स्वविषये न हि यत्रेसुरत्र न चरा अपि तद्वत् ॥ ४५ ॥
१५. हे राजंस्तव सूता भट्टा एपु पूर्वोक्तेपु वृन्दावनादिविषयेषु पफणुर्जग्मुः । तथा विफेणुर्भयाभावेन खेच्छाचारित्वाद्विशिष्टं जग्मु । तथा स्वेनुस्त्वदाशीर्वादायूचु । तथा तव गुणान्सस्वनुश्चाकीर्तयंश्च । तथा तव चरा अपि हेरिका अपि । किं पुनः सूतादय इत्यप्यर्थः । यद्वद्यथा स्वविषये निजदेशे गूर्जरत्रायां न हि नैव तत्रसुविभ्युस्तद्वत्तथात्रैषु देशेषु वृन्दावनादिपु न त्रेसु.॥ सस्यमुर्यदलयो यदु हंसाः स्येमुराः कुरुषु तन्न रराजे । रेज ईश तव कीर्तनमावभ्राज इन्द्रमृतवर्णनकं वा ॥ ४६॥
४६. उ हे ईश स्वामिन्नलयो भृङ्गा यत्सस्यमुः शब्दायिता यच्च हंसा: स्येमुस्तत्स्यमनम् । आ इति खेदे । कुरुपु देशेषु न रराजे सुखदं नाभूदित्यर्थः । खेदश्च तच्छब्दानां मधुरत्वेन सुखदानामप्यसुखकत्वात् । तर्हि किं रराज इत्याह । तव कीर्तन वर्णनकं कुरुषु रेजे । वा यद्वा । इन्द्रसुतवर्णनकमर्जुनवर्णनावभ्राजे कर्णाह्लादकमभूदित्यर्थः ।। भ्रेज ऐल इति राघव आवभ्रास ईश्वरगणः परिभ्रेसे । भ्लेस आर्किरजभूपतिरावभ्लास इत्यनुदिशं त्वयि वादाः ॥४७॥
४७. इत्येवंविधा वादास्त्वयि विषयेनुदिशं प्रतिदिशमभूवन् । के
१बी कीर्तिन.
१ सी डी नुस्खदा, २ सी नुश्चकी'. ३ बी मन् मा t. ४ ए
न
.