________________
[है० ३.४.४७.]
सप्तमः सर्गः।
५०५
क्षिपुः । अग्नौ क्षिप्राः शरा रणे स्वमेव भस्मी चक्रुन तु शत्रुवधादि स्वकार्य चक्रुरित्यर्थ. । केपि च नृपाः स्वमात्मानं जुहवांचकुर्न तद्वलं दुर्लभसैन्यं विदांचकुरियत्परिमाणमिति परिच्छिन्नवन्तः । शवविनाशनेनात्मानमेव विनाशितवन्त इत्यर्थः ॥
विदांबभूवुनैव स्वं विदामासुश्च नापरम् । रजोभिर्विविदुर्नाक विदांकुर्वन्तु किं जनाः ॥ १२७ ॥ १२७. जना भटलोका रजोभिः कृत्वा स्वमात्मीयं नैव विदांवभूतिवन्तो न चापरं शत्रु विदामासुर्न चार्क विविदुः । अतश्च रोदस्यो रजोभिरावरणेन सुज्ञेयानामप्येपामदर्शनाकिं विदाकुर्वन्तु जा. नन्तु । न किमपीत्यर्थः ॥
अमी विदन्तु मे शक्तिमध्यासीदिति दुर्लभः ।
अस्माक्षीत्पाणिना श्मश्रूण्यस्पृक्षदिषुधिं ततः ॥ १२८ ॥ १२८. पूर्वाध स्पष्टम् । ततश्चिन्तानन्तरं स्वशक्यवलेपेन श्मभूणि दंष्ट्रिकां पाणिनास्पाक्षीत्ततश्चेपुधि शराकप्यास्पृक्षत् ॥
निषङ्गादिषुमकाक्षीदकक्षदथ कार्मुकम् ।
यां लीलामर्जुनोम्राक्षीत्ताममक्षदसौ तदा ॥ १२९ ॥ १२९. अक्राक्षीदाकृष्टवान् । यां लीलां शोभामर्जुनोम्राक्षीत्पस्पर्श ता लीलां तदा कार्मुकाकर्षणकालेसौ दुर्लभोमृक्षत् । शिष्टं स्पष्टम् ॥
अद्राप्मुर्ये भुजस्थाना मत्रास्त्रैरपंश्च ये ।
स तैः कृतान्तमत्राप्सीदपयशसा न हि ॥ १३० ॥ १३०. स्पष्टः । किं तु । अद्राप्सुर्गवं चक्रुः । तैर्नपैः कृत्वा स
१ टीन श०. २६ °दि का. ३ बी सी टी जुड़वां. ४ई ति न प. ५ डीन शा. ६ई दरोर'.