________________
५७४ व्याश्रयमहाकाव्ये [दुर्लभराजः]
उवोषेव दिशो वह्निःक्ष्मा बिभायेव कम्पभृत् ।
न ते तथापि विभयांबभूवुर्मेदिनीभुजः ॥ १२३ ॥ ५२३. वह्निर्दिश उवोपेव । नृपपराजयसूचकोत्पातोद्भवादिशोग्निना दह्यमाना इवालक्ष्यन्तेत्यर्थः । तथा कम्पभृत्क्ष्मा विभायेव । तथाप्येवमुत्पातसद्भावेपि ते मेदिनीभुजो न विभयांवभूवुर्वलावलेपान भीताः ॥
नेन्द्रायो विभयामास विभयांचवान्स किम् ।
पजिहयांचकाराजौ तैः प्रत्युत चुलुक्यराट् ॥ १२४ ॥ १२४. स्पष्टः । किं तु तैर्नृपैः सहाजौ रणे सति प्रत्युत प्रजिहयांचकार किमेभिरतिहीनैः सह युद्धेनेति लजितः ॥
जिहाय यद्यपि तथाप्यजगावं बभार सः।
पुरो दिधक्षोभिरांबभूवेशस्य विभ्रमम् ॥ १२५॥ १२५. स दुर्लभो यद्यपि जिहाय तैः सह युद्धेन लजितस्तथापि तेषां वृथाबलाभिमानापनोदायाजगावं धनुर्वभाराधारयत् । अजगावशब्दः सामान्यधनुष्यपि वर्तते । अत एव पुरस्तिस्रः पुरीदिधक्षोदेग्धुमिच्छोरीशस्य शंभोर्विभ्रमं बिभरांबभूव । पुरो दिधक्षुरीशो मजगावं पिनाकं बभार ॥
तत्रानाविव केपीपुसमिधो जुहुवुर्नृपाः ।
केपि स्वं जुहवांचक्रुर्विदांचकुर्न तद्वलम् ॥ १२६ ॥ १२६. केपि नृपास्तत्राजावनाविवेपुसमिधः शरैधान् जुहुवुश्चि
-
-
१ ए नैन्द्रा . २ पी स्व जहुवा . ३ ए सी डी जुहुवा.
१ए गायः
१ बी सी डी रो दपि.