SearchBrowseAboutContactDonate
Page Preview
Page 617
Loading...
Download File
Download File
Page Text
________________ [हे० ३.४.४७. ] सप्तमः सर्गः। ५७३ विचारणया युद्धस्य विनत्वानेपुर्न च सखीनीहांचक्रिरे बलाद्यवलेपासहायानपि नापेक्षितवन्त इत्यर्थः ।। खमानोdनावाशा नृपाणां तुमुलस्तथा । प्रजागरांचकाराशु ग्रसनाय यथान्तकः ॥ १२० ॥ १२०. नृपाणां तुमुलो व्याकुलो रवोत्युच्चस्त्वात्तथा खमानर्छ व्याप तथाशा दिशस्तथोणुनाव व्याप यथान्तको प्रसनाय नृपाणामेव निगलनायाशु शीघ्रं प्रजागरांचकार । उद्यतोभूदित्यर्थः । गाढव्याकुलस्वरेण हि सुप्तोकस्मादेव जागर्ति ।। अलक्ष्मीर्जागरामास न जागरांबभूव धीः । यत्तं जजागरुजेतुं समिन्धांचक्रिरे च ते ॥ १२१ ॥ १२१. यदिति क्रियाविशेषणम् । तं दुर्लभं जेतुं यत्ते नृपा जजागरुरुद्येमुः समिन्धांचक्रिरे च तेजस्विनो बभूवुश्च । यत्तदोर्नित्याभिसंबन्धात्तत्तेषामलक्ष्मीजीगरामास । धीर्बुद्धिर्न जागरांबभूव । तस्यातिशक्तत्वेन केनाप्यजेयत्वात् ।। समीधेग्निर्यथा यद्वदिन्धांचके च वाडवः । ईधे तेजस्तथा तेषां विश्वमोषांचकार नु ॥ १२२ ॥ १२२. यथाग्निः समीधे जज्वाल यद्वच्च वाडवै इन्धांचक्रे तथा तेषां नृपाणां तेजः कोपाटोपोत्थप्रचण्डप्रताप ईधे । अत एव विश्वं जगदोषांचकार नु ददाहेव ।। १ सी डी मिधाच. - १ बी सी डी मिधाच. २ डीपः । य. ३ ए बी ईकांच.
SR No.010714
Book TitleDwashraya Mahakavyam
Original Sutra AuthorN/A
AuthorAbhaytilak Gani
PublisherManfara S M Jain Sangh
Publication Year1983
Total Pages861
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy