________________
[है. ३.४.४२.] सप्तमः सर्गः।
५६९ संभाण्डयन्ते संचीवरयमाणा मखाय ये।
ते मनयन्तो ब्रह्माणस्तयोः पाणी अमिश्रयन् ॥ ११०॥ ११०. ते ब्रह्माणो द्विजा मत्रयन्तो विवाहोचितमत्रानाचक्षाणाः सन्तस्तयोर्वधूवग्योः पाणी अमिश्रयन् संयुक्तीचक्रुः । ये यागेषु सदोद्यतत्वान्मखाय यागार्थ संभाण्डयन्ते भाण्डानि यज्ञोपकरणानि समाचिन्वन्ति । किंभूताः । संचीवरयमाणाश्चीवरं ववं समाच्छादयन्तो यजमानेभ्यो भिक्षयोपार्जयन्तो वा ।। संभाण्ढयन्ते । अन "भाण्डा" [१०] इत्यादिना णित् ॥ संचीवरयमाणाः । अत्र "चीवरात्" [११] इत्यादिना णित् ॥ अमिश्रयन् । मनयन्तः । अत्र "णि" [१२] इत्यादिना णिच् ॥
ये पयो व्रतयन्त्यन्नं व्रतयन्ति च ये द्विजाः । वेढार्पयन्तस्ते चक्रुर्मधुपर्कादिकं तयोः ॥ १११ ॥ १११. ते द्विजा वेदापयन्तो वेदमाचक्षाणास्तयोर्मधुपर्कादिकं मधुपर्क दना संपृक्तं मधु । तेनात्रोपचाराद्वधूवराभ्यां यन्मधुपर्कस्य प्राशनं तदुच्यते । तदादिर्यस्य प्रदक्षिणादापनादेविवाहाचारस्य तं चक्रुः। ये पयो दुग्धं ब्रयन्त्यस्माभिः पय एव भोक्तव्यमिति प्रदं कुर्वन्ति गृहन्ति वा तथा येन्नमस्माभिर्न भोक्तव्यमिति व्रतयन्ति च ।।
चौलुक्याय महेन्द्रोथ सत्यापितमनोरथः।
अर्थापयञ्ज्वेतयन्नश्वयंस्तत्वचदा ददौ ॥ ११२॥ ११२. अर्थ तथा तदा विवाइकाले सत्यापिताः परिपूर्णीकरणेन १५ पनोचस्ते. १ बी पकारक.२६ संयुकं. ३ सीसीदा . ४५ णेच सलीलाम'.
-