________________
५६८ व्याश्रयमहाकाव्ये
[दुर्लभराजः] यदुतकनामत्वेनैकराशित्वादेकनक्षत्रत्वाच तवामुना सहातिश्रेष्ठो योग इति ॥
तपस्यताम् । अत्र "तपसः क्यन्" [३६] इति क्यन् ॥
ममस्यन् । वरिवस्थन् । अचित्रीयत । इत्यत्र "नमः" [३७] इत्यादिना क्यन् ॥
साथ हस्तयमानास्य कण्ठे चिक्षेप च स्रजम् ।
अधैरुत्पुच्छयमानैर्ययो कुप्यच्च राजकम् ॥ १०८॥ १०८. अथैवं द्वास्थाभणनानन्तरं सा दुर्लभदेवी हस्तयमाना हस्तमुक्षिपन्त्यस्य दुर्लभस्य कण्ठे सजं वरमालां चिक्षेप च । तथा राजकं नृपौध: कुप्यहुर्लभवरणेन क्रुध्यत्सदुत्पुच्छयमानैवेगेन प्रेरितत्वात्पु. च्छादूर्ध्वमस्यद्भिरश्वैः कृत्वा ययौ च स्वयंवरमण्डपानिर्जगाम च ॥
परिपुच्छयमानेभैरश्वैः पुच्छयमानकैः । द्राग्विपुच्छयमानोरथैरागाच्च बन्धुता ॥ १०९ ॥ १०९. बन्धुता दुर्लभस्य बान्धवौघो विवाहोत्सवविधय आगात् । कैः कृत्वा । परिपुच्छयमानेभैः पुच्छान्समन्तादस्यद्भिर्गजैस्तथा पुच्छयमानकरज्ञातैः पुच्छानस्यद्भिरश्वैस्तथा विपुच्छयमानाः पुच्छाविविघं विशिष्टं वास्यन्त उक्षाणो वृषा येषु ते तथा ये रथास्तैश्च ।।
हस्तयमाना । इत्यत्र "भमात्" [३८] इस्यादिना णि ॥
उत्पुछपमानैः । परिपुच्छयमान । विपुच्छयमान । पुच्छयमानः । मन "पुजा" [३९] इत्यादिना णिक् ॥
१सीडी छान्यूg. २ सी डी विरुवः . ३१ विषये.