________________
५६४ व्याश्रयमहाकाव्ये
[दुर्लभराज.] इन्द्रति । गल्भते । अक्लीबमाने । होडते । अत्र “कर्तुः क्विप्" [२५] इत्या. दिना किए । गल्भल्लीबहोडेभ्यः पुनः स एव इित् ॥ शतीयसे । भत्र "क्यह" [२६] इति क्य॥
यस्य वाचः पयायन्ते लावण्यं च पयस्यते ।
चोप्सरायमाणा त्वं रन्तुमोजायसेत्र किम् ॥ १० ॥ १००. अत्र चै। चेदिदेशाधिपेप्मरायमाणा त्वं किं गन्तुमोजायस ओजस्विनीवाचरस्युद्यच्छसीत्यर्थः । यस्य वाचो माधुर्यात्पयायन्ते दु. ग्धवदाचरन्ति । लावण्यं च सौन्दर्यं च पयस्यते ॥
ओजस्यन्ते भृशायन्ते संश्चायन्ते चतुर्दिशम् ।
कीर्तयो यस्य तत्रास्मिन्कुरौ किं सुमनायसे॥ १०१॥ १०१. तत्रास्मिन्कुरौ कुरुदेशेशे किं सुमनायसेसुमना: सुमना भवस्यनुग्ज्यसीत्यर्थः । यस्य कीर्तय ओजस्यन्त ओजस्विन्य इवाघरेन्त्यतिप्राचुर्येण प्रबलीभवन्तीत्यर्थः । तथा चतुर्दिशं व्यञ्जनान्तादपि केचिदापमिच्छन्ति तन्मते दिक्शब्दादपि । चतस्रो दिशा यत्र तद्यथा स्यादेव भृशायन्तेभृशा भृशा भवन्ति । चतुर्दिक्षु मल प्रसरन्तीत्यर्थ । तथा संश्वायन्ते संश्चत्कुहको विस्मापक इत्यर्थः । असंभवतः संश्चतो भवन्ति प्रतिदिनं नवनवावदातेभ्य उद्भवेन सदा नवत्वाञ्चतसृष्वपि दिश्वाश्चर्यकारिण्य: स्युरित्यर्थः ॥
पयायन्ते पयस्यते । अत्र “सो वा लुक" [२७] इति क्यान्त्यसस्य चलुग्दा ॥
भोजायसे । अप्सरायमाणा । इत्यत्र "ओजोप्सरस:" [२८] इति क्यरस. लोपम ॥ मम्बे स्वोजःशब्दे सलोपविकल्पमिच्छन्ति । ओजायसे भोजस्यन्ते ॥
The nas. fit omits the part of the commentary from nि in देशाधिप to the verse biwinning with ओजस्यन्ते. २ बा सा रन्तिति. ३ सीन्ति दि.