________________
[ है. ३ ४.२९. ] सममः सर्गः।
५६५ भृशायन्ते । मुमनायसे । सश्वायन्ते । अत्र "ध्यर्थे' [२९] इत्यादिना क्यड् सतयोर्यथामभवं लोपश्च ॥
लोहितायन्मुखांश्चर्मायतः पटपटायतः। द्विपोकष्टायमानोहन्योमुं हूणं वृणोपि किम् ॥ १०२॥ १०२. अमुं हूणं हूणदेशेणं किं वृणोपि । योकप्टायमानः कष्टाय पापकर्मणेक्षत्राचाग्युद्धादिकायाक्रामन् क्षत्राचारेण युध्यमानः सन्नित्यर्थः । द्विषोहञ् जघान । किभूतान्सत: । चर्मायतश्चर्मणः स्वतब्रार्थवृत्त्या प्रकृतिविकारभावाप्रतीतेश्चव्यर्थो नास्तीति तद्वृत्तेः प्रत्यय इति । अचर्मवतश्चर्मवतो भवतः प्रहाररक्षार्थ सखेटकीभवतोत एव पटपटायतैः पटच्छब्दोप्यत्र तद्वति वर्तते । स्फेरिकास्फालनोत्थपटच्छन्दे-' नापटत्वत: पटत्वतो भवतः । युद्धोद्यतानित्यर्थः । अत एव च लोहितायन्त्यतिकोपादलोहितानि लोहितानि भवन्ति मुखानि येषां तान् ॥
न यः कक्षायते कोपाल्लोभात्कृच्छ्रायते न च ।
नापि सत्रायते कामान्माथुरं किं भजस्यमुम् ॥ १०३ ॥ १०३. अमुं माथुरं मथुगयां भवं नृपं किं भजसि । यः कोपान कक्षायते कक्षाय वधवन्धादिकाय पापकर्मणे न कामति न च लोभास्कृच्छ्रायते कृच्छ्राय प्रजातीव्रकरपीडनादिकाय पापकर्मणे न क्रामति नापि कामात्कन्दत्सित्रायते सत्राय पररुयपहारादिकाय पापकर्मणे न कामति ॥
१ सी त्र “वा". २ सी क्षार्थ स. ३ बी सी री ः पटप. ४ डी दोत्र. ५५ स्फरका. ६ सी डी ति नापि. ७५ यप्र. ८पणे का.