________________
५५८ व्याश्रयमहाकाव्ये
[दुर्लभराजः] ल्लासवशेन मोट्टायितस्योजम्भितत्वाद्गर्हितमजभेत । जभैडो रूपमिदम् । अत्यर्थ गात्रं मोटितवतीत्यर्थः । अजञप्यतापि हा मया मन्दभाग्ययासो विश्वनेत्रामृतं नेक्षित इत्यादिवगर्हणातिचिन्तया गहितमचिन्तयञ्च । यतस्तदवीक्षणे दुर्लभस्यानालोके सति दन्दश्यमाना नु मर्शकादिमिर्गर्हितं भक्ष्यमाणेव । दन्दह्यमाना न्वग्मिना गर्दा दामानेवात्यन्तमरतिमनुभवन्तीत्यर्थः । यापि हि दन्दश्यमाना दन्दह्यमाना वा स्यात्सापि कष्टेभयेन पलायनाचचूर्यतेङ्गस्यातिव्यथितत्वाजतभ्यते च जलप्यते च मनसा गडं ध्यायति चेत्युक्तिः। .
जेगिल्यमाना । भलोलुप्यत । सासघमाना । अचन्चूर्यत । अजअप्यत । अजनभ्यत । दन्दश्यमाना । दन्दयमाना । इत्यत्र " गृलुप” [१२] इत्यादिना यङ्॥
स्त्रीभृशं शोभमानास्ताः क्षोभयन् गृणतीर्बुवम् ।
अगादृशं रोचमानः स स्वयंवरमण्डपम् ॥ ८९ ॥ ८९. स दुर्लभः खयंवरमण्डपमगात् । कीडक्सन् । भृशमत्यर्थ रोचमानो रूपवेषादिना शोभमानोत एव भृशं रूपवेषादिना शोभमानास्ताः पूर्वोक्का: स्त्रीः क्षोभयन् । अत एव कीदृशीः । ब्रुवं गई हा दुर्लभ प्राणवल्लभात्मसंगमेनास्माकं प्राणांस्त्वद्विरहे निर्गच्छतो रक्ष रक्षेत्यादिपरपुरुषाभिलाषप्रकटकवाक्यैः कुलस्त्रीणामनुचितं यथा स्यादेवं गृह्णतीर्वदन्तीः॥
-
१पी स्त्री भृश. २ ए ती व'. ३ सी डी आगा.
१ए सवासन. २ ए डी भत् ।। ३ सी डी या स वि. ४सी 'शयदि . डी शक्यादि'. ५ सी डी 'भावेन. ६ वी च म. ७ सी डी °पमागा', ८ए दिनाप. ९ बी सी डी जन्ती.