SearchBrowseAboutContactDonate
Page Preview
Page 603
Loading...
Download File
Download File
Page Text
________________ [ है० ३.४.१५.] सप्तमः सर्गः ५५९ भुवं गृणतीः । भृशं शोभमानाः । भृशं रोचमानः । अत्र "न गृणा" [१३] इत्यादिना न य॥ तत्र बोभूयमानश्रीवोंभुवच्छ्रीषु राजमु । कुर्वन्मण्डपपोपूयां सोध्यास्तोचितमासनम् ॥ ९० ॥ ९०. स दुर्लभस्तत्र स्वयंवरमण्डप उचितं स्वयोग्यमासनमध्यास्त । कीहक्सन् । बो वत्यरुचौ नवनवभगीरचनया पुनः पुनर्भवन्ती श्रीर्वेषाभरणमण्डनादिता शोभा येषां तेषु राजसु मध्ये बोभूयमानोत्कृष्टीभवन्ती श्रीर्वेषादिसंपद्यस्य सोत एव मण्डपपोपूयां स्वयंवरमण्डपपावित्र्यं कुर्वन् । बोभूयमान । बोभुवत् । इत्यत्र "बहुलं लुप्" [१४] इति यझो बहुलं लुप् ॥ बहुलग्रहणं प्रयोगानुसरणार्थम् । तेन कचिन्न स्यात् । पोपूयाम् ॥ पोपुवैस्तैः स योयूयः मार्वरणमण्डपः । नाटयन्निखिलार्कस्याचोरयन्नभसः श्रियम् ॥ ९१ ॥ ९१. पोपुवैः सश्रीकत्वेन पवित्रकैस्तैः प्रसिद्धः क्ष्मापैर्योयूयोत्यर्थ संयुक्तीभवन्सन्स प्रसिद्धो वरणमण्डपः स्वयंवरमण्डपो नभसः श्रियमचोरयत् । किंभूतस्य । नाटयन्तो विजृम्भमाणा निखिला द्वादशार्का यत्र तस्य द्वादशार्कभासुरादपि व्योम्नोनेकराजमार्तण्डैर्वरणमण्डपोत्यन्तं सश्रीकोभूदित्यर्थः ।। पोपुवैः । भन्न "अचि" [१५] इति यो लुप् ॥ १ए पोपवै. १ टी मानाः ।. २ डी भुवन्त्य'. ३ ए रण म°. ४ ए वी डी "कृतशो. ५ सी डी पेपो'. ६ एन् ॥ भू. ७ए 'ण्डप स्व.
SR No.010714
Book TitleDwashraya Mahakavyam
Original Sutra AuthorN/A
AuthorAbhaytilak Gani
PublisherManfara S M Jain Sangh
Publication Year1983
Total Pages861
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy