________________
व्याश्रयमहाकाव्ये
[दुर्लभराजः ७०. स दुर्लभः कापि कस्मिन्नपि स्थानेश्वमुपारंस्त । अत्र रमिरन्त. भूतण्यर्थः सकर्मकः प्राप्युपसर्जनो वा सकर्मकः । आरुह्य गतिपञ्चकेनाखे. लयत् । कचिच्चेभेन कीरोहयत । आरोहदिभं सः । न्यग्भवन्तं न्यगभावयेत् । स एवं विवक्षितवान् । नाहमारोहं किं तु स्वयमेवारुछतेभः स्वयमेव न्यगभूदित्यर्थः । ततः स्वयमेवं वारूढं न्यग्भूतं स प्रायुक्त णिग् । “पाकर्मणाम्" [२.२.५] इत्यादिना कर्तुर्वा कर्मत्वात् । इभेनेभं वा स आरोहयत्पुनः । स एवं विवक्षितवान्नाहमारोहयं किं विभः स्वयमेवारोहयत न्यगभूदित्यर्थ इति पञ्चम्यवस्थानन्तरं पुनरपि स्वयमेवारोहयमाणमिभं स प्रायुत । पुनर्णिम्। न्यगभावयदित्यर्थः । कापि कस्मिंश्च प्रदेशे मित्राणि रथ आसयन्नुपवेशयन्सन्सकथाः साश्चर्याणि पूर्वपुरुषावदातवर्णनान्यकारयत ॥
खेदं शोषयमाणोभूच्चलयन्वीरुधस्तदा। पताकाः कम्पयन्वायुर्मुदे मध्विव भोजयन् ॥ ७१॥ ७१. तदा दुर्लभस्य गमनकाले वायुर्मुद्देभूत् । कीडक्सन् । स्वेदं श्रमसंतापोत्थं धर्म शैत्याच्छोषयमाणस्तथा वीरुधो लताश्चलयन् । एतेन सौरभोक्तिः । तथा पताका रथादिस्था वैजयन्तीम॑दुत्वात्कम्पयनतश्चात्यन्तं सुखहेतुत्वान्मधु भोजयन्निव । एतेनास्य कार्यसिद्धिसूचकं शुभशकुनमुक्तम् ॥
तस्याभ्युदस्थुर्नीवारानाशयन्तो मृगार्भकान् । बोधयन्तोध्यापयन्तो बटून् ग्रन्थान्वनर्षयः॥ ७२ ॥ ७२. वनर्षयस्तापसास्तस्य दुर्लभस्याभ्युदस्थुराश्रमगुरुत्वेनाभिमु१ डी टूनान्व. १सी डी ः प्रा. २६ यन्स ए.३ सी मेवा'. ४बीई व चारू: ५ सी सीपमान.