________________
[है० ३.३.१०१.]
सप्तमः सर्गः।
५४९
अभिक्षिपन्तो हस्ताग्रं गन्धेभाः प्रवहन्मदाः । सैन्येस्यापरिमृष्यन्तोन्योन्यं पर्यवहन्पृथक् ॥ ६८ ॥ ६८. अस्य दुर्लभस्य सैन्ये गन्धेभा गन्धप्रधाना गजा हस्तानं शुण्डाग्रभागमभिक्षिपन्त इतस्ततोभिमतं प्रेरयन्तः सन्तः पृथग्भिन्नाः पर्यवहन्समन्ताजग्मुः । यतोन्योन्यमपरिमृष्यन्तोसहमानाः। एतदपि कुत इत्याह । यतः प्रवहन्मदाः ।। पराकुर्वन् । अनुकुर्वन् । इत्यत्र "परा" [२०१] इत्यादिना परसै ॥
प्रतिक्षिपन् । अभिक्षिपन्तः । अतिक्षिपन् । इत्यत्र "प्रत्यभि०" [२०२] इ. त्यादिना परस्मै ॥
प्रवहत् । इत्यत्र "प्रादहः" [१०३] इति परस्मै । परिमृष्यन्तः । पर्यवहन् । इत्यत्र "परेमपश्च" [१०४] इति परस्मै ।
ययावविरमन्पथ्यारमद्भिर्नर्मबन्धुभिः ।
समं परिरमन्नन्योदन्तादुपरमन्त्रयम् ।। ६९ ॥ ६९. अयं दुर्लभः पथि ययौ । कीदृक्सन् । अविरमन्ननवरतं गच्छंस्तथारमद्भिः क्रीडद्भिर्नर्मबन्धुभिर्नर्मसचिवैः समं परिरमन्परिखेलं. स्तथान्योदन्तात्स्वयंवरनायिकोदन्तादन्यस्या वार्ताया उपरमन्निवर्तमानः स्वयंवरकन्यकोदन्तमेव कुर्वन् ।।
कापि सोश्वमुपारंस्तेभेनारोहयत कचित ।
काप्यासयन रथे मित्राण्यकारयत सत्कथाः ॥ ७०॥
१५ न्येस्य प.
१ए प्रावृह. २५ परिय'. ३
मस. ४वी टी 'नायको.