________________
[ है० ३.३.९२.] सप्तमः सर्गः।
५४५ ५९. अथ चामुण्डराजस्यात्मसाधनानन्तरं दुर्लभो निीषानपि निर्भयानप्यरीनभीषयत भीतवतः प्रयुक्तवान् । यद्यस्मात्स उच्चकैः शक्रमप्यभापयत । यतो भाप्यत आभ्यां भापनौ भुजौ यस्य सः ।।
अभीपयत । इत्यत्र "बिभेतीच" [१२] इत्यात्मने । अस्य च भीपादेशः।। पक्षे । अभापयत । इत्यत्रान्तस्याञ्चाकर्तर्यपि । यद्यप्यत्र परमार्थतो भापनभुजाभ्यां कृत्वा भय तथाप्यवयवावयविनोरभेदेन भुजावपि दुर्लभ एवेति प्रयोकुरेव स्वार्थ इत्यात्वं स्यात् ॥ अकर्तर्यपीत्येव । निर्भीपान् । भापन । अत्र न करणाद्भयं किं तु करणाद्धापनमिति प्रयोक्तुः स्वार्थ एवाकर्तर्यप्याकारः ।।
मिथ्याकारयमाणास्य कीर्तिः कृष्णं हिमोज्ज्वला । पर्यमोहयतात्यन्तमायासयत च श्रियम् ॥ ६० ॥
६०. अस्य दुर्लभस्य हिमोज्वला कीर्तिः श्रियं कृष्णभार्यामत्यन्तं पर्यमोहयत कृष्णस्यानुपलेल्यत्वेन व्यपगमाद्याशङ्कया परिमुह्यन्ती मू
छैन्ती प्रायुतात्यन्तमायासयताखेदयञ्च । यतः कृष्णवर्णत्वात्कृष्णं विष्णु मिथ्याकारयमाणा कृष्णं मिथ्या कूटं करोत्युच्चारयति लोकस्तं प्रयुजाना कृष्णवर्णापहवाल्लोकेन कृष्णमन्वर्थाभावरूपदोषदुष्टमसकृत्पा-- ठयन्तीत्यर्थः । अत्र च व्याख्यानेल्लोकेनेति ज्ञेयम् । यद्वा । कीर्तिः कृष्णं कृष्णवर्णापहवेन मिथ्या कूटं करोति विदधाति प्रयोक्कैवं विवक्षते नेयं कृष्णं मिथ्याकरोति किं तु कृष्णः स्वयमेव मिथ्याक्रि. यते मिथ्याभवति तं कीर्तिः प्रयुञ्जाना । एवं विवक्षायां णिगि सत्यपि मिथ्याकारयमाणासकृन्मिथ्यावतीत्यर्थः । तात्पर्येण कृष्णं श्वे. तयन्ती ॥
, १सी डी जस्य चात्म'. २ ए सी भीष्वा" . ३ सी डी प्णत्वस्या'. ४ यी लक्षवे. ५ई. ये मि. ६ डी कुर्वन्तीत्य,