________________
व्याश्रयमहाकाव्ये
दुर्लभराजः
स आयामयमानो वादयमानोर्थिनः किल।
मधून्यधापयत किं किमपाययतामृतम् ॥ ६१ ॥ ६१. स दुर्लभः । किलेति सत्ये । आर्थिनो याचकान्कि मधून्यधा. पयत पाययामास किममृतं सुधामपाययत। कीहक्सन् । आर्थिन आयामयमानः । पूर्ववत्कर्मकर्तृविवक्षयाकर्मकाद्धातोर्णिगि महादानेन वर्धयंस्तथा वादयमानः प्रियमालपन् ।
कूर्म दमयमानां गामवासयत दोष्ण्यसौ । प्रतापेनादयांचक्रे द्विषः खड्न चादयत् ॥६२ ॥ ६२. असौ दुर्लभः प्रतापेन की द्विषो दैत्याद्यन्यायिशत्रूनादयांचक्रे खड्रेन च की द्विष आदयत् । कानपि द्विषः प्रतापेनैव क्षयं नीतवान्कानपि युद्धेनेत्यर्थः । अत एव कूर्म कमठरूपिणं विष्णुं दमयमानां गुरुत्वात्खेदयन्ती गां पृथ्वी दोष्णि भुजादण्डेवासयंत स्थापितवान् । सर्वशत्रूच्छेदेनाखिलपृथ्वी खवशीचकारेत्यर्थः ।।
लोकं रोचयमानोसौ नानर्तयत के मुदा ।
चक्रे धर्म सुरानीजे व्यधत्तायतनानि च ॥६३ ॥ ६३. असौ दुर्लभो धर्म दानादिकं चक्रे । तथा सुरानईदादिदेगनीजे पूजितवानायतनानि प्रासादान् व्यधत्त च कारितवांश्च । अत एव लोकं रोचयमानः प्रीणयन के मुदा हर्षेण नानर्तयत ।।
स साधनयजत्तत्त्वं जानानस्तत्मजानतः । __ अपावदिष्ट चैकान्तं समयच्छत शुद्धताम् ॥ ६४॥
१बी वक्षाया. २ ए मशा'. ३६ श्री . ४ प य सा.