________________
५४४ व्याश्रयमहाकाव्ये
[दुर्लभराजः] द्विषोपलापयमानं स राज्ये न्यस्य दुर्लभम् ।
तपसा लापयांचक्रे नोदलापयत स्वम् ॥ ५७ ॥ ५७. उ इति चामुण्डराजीयमहावदातश्रवणाय लोकानामभिमुखीकरणे । अहो लोकाः स राजा द्विषोपलापयमानमभिभवन्तं दुर्लभं दुर्लभराज राज्ये न्यस्य तपसानशनेन लापयांचवे परैरात्मानमपूजयत् । अत एव स्वमात्मानं नोदलापयत नावञ्चयत ॥
तेन स्मालाप्यते विस्मापयमानैस्तपोगुणैः । विस्मापनकृता शुक्लतीर्थे गत्वाधिनर्मदम् ॥ ५८ ॥ ५८. अधिनर्मदं नर्मदानद्यां शुक्लतीर्थे तिलादिकृष्णवस्तुन इवात्मनोपि पापमलक्षालनेन नैर्मल्यहेतुत्वाच्छुक्लं यत्तीथं तस्मिन् गत्वा तेन चामुण्डराजेनालाप्यते स्म परैरात्मा पूज्यते स्म । यतो विस्मापयमानेरतितीव्रत्वेन लोकं विस्मयमानं प्रयुञ्जानैस्तपोगुणैनिस्पृहतादिभिः कृत्वा विस्मापनकृताश्चर्यकारिणा । नर्मदायां शुक्लतीर्थे तपोभिरास्मानं साधितवानिति तात्पर्यार्थः ॥
तपसा लापयांचके । द्विषोपलापयमानम् । स्वं नोदलापयत । इत्यत्र "लीहिनोः(न.)"[९०] इत्यादिनात्मन आचान्तस्याकर्तर्यपि ॥ अकर्तर्यपीति किम् । तपोगुणैस्तेनालाप्यते ॥
विमापयमानैः । अत्र "सिङः" [९१] इत्यादिनात्मन आचान्तस्याकर्त. यपि ॥ अकर्तर्यपीत्येव । विस्मापन ॥
अभीषयत निर्भीषानप्यरीनथ दुर्लभः । यद्भापनभुजः शक्रमप्यभापयतोचकैः ॥ ५९ ॥
१५ र तश्राव. २ सी डी स्मृहिता'.