________________
___५३८
व्याश्रयमहाकाव्ये [वल्लभराजः] नान्यदारान्नान्यवादान्ये पवित्राः प्रचक्रिरे । श्रियं तेषु प्रकुर्वाणः श्रेयसां स उपास्कृत ॥४६ ॥ ४६. स वल्लभः श्रेयसां पुण्यानामुपास्कृत तेषु गुणान्तरमादधौ तानि विशिष्टतराणि चक्र इत्यर्थः । कीदृक्सम् । ये पवित्रा यमनियमैः पूतात्मानो मुनयोन्यदारान्परस्त्रियो न प्रचक्रिरे न विनिपातमविभाव्य वानभिजग्मुरित्यर्थः । तथा येन्यवादान्परकथा न प्रचकिरे न कथयितुमारेभिरे न प्रकर्षणाकथयन्वेत्यर्थः । तेषु श्रियं प्रकुर्वाणो धर्मार्थ विनियुञ्जानः ॥ शिक्षांचके । अत्र "शक" [३] इत्यादिनात्मने ॥
मनुबन्धेन । एदिधिषमाणम् ॥ उपपदेन । व्यजिगीषन्त ॥ अर्थविशेषेण । अरे चिक्रसमानम् । अत्र "प्राग्वत्" [४] इत्यात्मने ।।
ईक्षांचक्राणः इत्यत्राफलवत्यपि । बिभांचकृवान् इत्यत्र फलवत्यपि "आमः ऋगः" [७५] इत्यात्मनेपदं स्याम स्याञ्चेति विधिप्रतिषेधावतिदिश्यते । यत्र तु पूर्वस्मादुभयं तत्र फलपत्यफलवति घोभयं स्यात् । बिभरांचके । बिभरांचकृवान् ॥
कलिमुस्कुर्वाणः । संसारमवचके । पदमुपचक्रे । अन्यदाराक्ष प्रचक्रिरे । श्रेयसामुपास्कृत । नान्यवादान्प्रचक्रिरे। श्रियं तेषु प्रकुर्वाणः । अत्र "गन्धन" [७६] इत्यादिना गन्धनादिषु क्रमेणात्मने ।
स कालमधिकुर्वाणो वदमानः सुहृज्जने ।
तत्त्वेषु वदमानश्वावदिष्ट परमात्मनि ॥ ४७ ॥ ४७. स वल्लभः परमात्मनि परमः क्षीणसकलकांशत्वाच्छ्रेष्ठो य
६ ई. शिष्टानि च.
२ ई. 4ः । ये'. ३ ई. ति वोम'.