________________
[है० ३.३.७३] सप्तमः सर्गः।
५३७ देवात्सोस्याथ रोगोभूच्छिक्षांचक्रे न कोपि यम् । यमेदिधिषमाणं च व्यजिगीपन्त नागदाः ॥४३॥ ४३. अथ देवाद्विधिवशादस्य वल्लभस्य स रोगः शीतलिकाख्योभूधं रोगं कोपि वैद्यादिर्न शिक्षांचके । शरीरान्तर्गतत्वेन न ज्ञातुं शक्नुयामितीच्छति स्मेत्यर्थः । यं च रोगमेदिधिपमाणं विवर्धिषमाणमगदा औषधानि न व्यजिगीपन्त । असाध्यो व्याधिरुत्पन्न इत्यर्थः ।।
सोङ्गे चिक्रंसमानं तमीक्षांचक्राण आत्मना । समाधि विभरांचके विभयांचकृवान हि ॥४४॥
४४. स वल्लभो न हि विभयांचकृवान्नैव भीतः । कीडक्सन् । अड़े चिक्रसमानं स्फायितुकामं तं रोगमात्मनेक्षांचक्रोणो वाधावृद्ध्या ज्ञातवान् । किं तर्हि समाधि चित्तैकाग्र्यं विभरांचके पोषितवान् । एतेनास्य विद्वत्तोक्ता ।।
विभरांचकृवान्स्थैर्यमुत्कुर्वाणः कलिं तदा ।
संसारं सोवचक्रेथोपचक्रे योगिनां पदम् ॥ ४५ ॥ ४५. तदा स वल्लभः कलिं कलिकालकर्म रागद्वेषादिकं कलह वोत्कुर्वाणः परिजिहीर्षया सदोषं प्रतिपादयन्धैर्य चित्तावष्टम्भं विभरांचकृवान्पोषितवान् । अथ तथा संसारं रागद्वेषादिदोषात्मकं भवप्रपञ्चमवचक्रे तिरस्कृतवानत एव योगिनां पदमुपचक्रे सिपेवे । योगिनो हि कलिमुत्कुर्वाणा धैर्य विभ्रति संसारं चावकुर्वते ।।
१ सी. च विजि. डी च वाजि.
१ एति । य. २ए काणा ना. ३ सीडी लहमुकु.