________________
५३६
ध्याश्रयमहाकाव्ये [वल्लभराजः] योस्य जिज्ञासते स्मौजोन्वजिज्ञासन्न केपि तम् । तमशुश्रूषमाणानां नाशुश्रूषन्वचोपि हि ॥४१॥ ४१. यो नृपोस्य वल्लभस्यौजो बलं स्वबलावलेपेन रणकरणाजिज्ञासते स्म ज्ञातुमैच्छत्तं नृपं केपि स्वकीयमत्रिमित्रादयो नान्वजिज्ञासन्नानुमतिमप्यदित्सन्नित्यर्थः । तथा तं वल्लभमशुश्रूषमाणानां मानासेवितुमनिच्छनां नृपाणां वचोपि । आस्तां मैत्रीविधानादीत्यपेरर्थः। केपि न हि नैवाशुश्रूषन्नीषदपि श्रोतुमैच्छन् । केपीति प्राक्तनमत्रापि योज्यम् ॥
जयाय प्रतिशुश्रूषत्यस्मिन्केपि महीभुजः ।
नादिक्षन्त दोःशक्तिमसुस्मूर्षन्त निम्बजाम् ॥ ४२ ॥ ४२. अस्मिन्वल्लभे जयाय प्रतिशुश्रूषति प्रतिज्ञां चिकीर्षों सति न केपि महीभुजो दोःशक्तिमदिक्षन्त युद्धेन परीक्षितुमैच्छन् । सर्वोस्कृष्टबलत्वादनेन सह न केपि युयुधिर इत्यर्थः । कि तु परित्राणाय निम्बजां निम्बजाख्यां सप्रत्ययां लोकप्रसिद्धां देवतामसुस्मूर्षन्त स्मतुमैच्छन् ।
जिज्ञासते । अत्र "अननोः सन." [७०] इत्यात्मने ॥ अननोरिति किम् । अन्वजिज्ञासन् ॥
शुश्रूषमाणानाम् । अत्र "श्रुवः" [१] इत्यादिनात्मने ॥ भनाइतेरिति किम् । आशुश्रूषन् । प्रतिशुश्रूषति ॥
असुस्मूर्षन्त । अदिदृक्षन्त । अत्र "स्मृदृशः" [७२] इत्यात्मने ॥
१ सी दिशनि २ ई.न्त । इत्यत्र.