________________
[है. ३.३.६९.] सप्तमः सर्गः।
५३५ तिष्ठामहे वः । त्वयि तिष्ठते प्रीति । अत्र "झीप्सास्येये" [६४] इत्यारमने ।
केष्वप्यभयमातस्थे राज्यं समगरिष्ट च ।
कानप्यवागरिष्टेवापजानानः स तेजसा ॥ ३९ ॥ ३९. स वल्लभ. केम्वपि भीतेषु राजस्वभयं भयाभावमातस्थे प्रतिज्ञातवान् । तथा केष्वपि निश्छद्माश्रितेघु राज्यं समैगरिष्ट च प्रतिज्ञातवांश्च । प्राक्तनं केष्वपीत्यत्रापि योज्यम् । तथा कानप्यनतान्नृपांस्ते. जसा प्रतापेनापजानानोपलपन्सन्नवागरिष्टेव समूलोन्मूलनेन नानोप्युच्छेदाद्वस्तवानिव ॥
आतस्थे । अत्र “प्रतिज्ञायाम्" [६५] इत्यात्मने । समगरिष्ट । इत्यत्र "समो गिरः" [६६] इस्यात्मने । अवागरिष्ट । इत्यत्र "भवात्" [६०] इत्यात्मने । अपजानानः । अत्र "निहवे ." [६८] इत्यात्मने ॥
संजानानास्तादृशं तं संजानन्तो हरेस्तदा ।
जगज्झम्पननामोच्चः प्रत्यजानत भूभुजः ॥ ४०॥ ४०. तदा यात्राकाले तं वल्लभं भूभुजो जगज्झम्पननान्ना जगतोच्छत्रुलोकस्य झम्पनोतर्कितमुपरिपातुकतेन नान्नोच्चैः प्रत्यजानताभ्युपागच्छन् । किंभूताः सन्तः । तादृशं जग झम्पनेति नाम्नः सदृशं शत्रुलोकं झम्पयन्तमित्यर्थः । संजानानाः पश्यन्तोत एव हरेः सिहस्य संजानन्तः स्मरन्तोस्मिन् जगझम्पनतालक्षणसिंहसाधर्म्यदर्शनात्सिंह स्मरन्त इत्यर्थः ।।
त सजानानां । तं प्रन्यजानत । इत्यत्र "संप्रतेरस्मृती" [६९] इत्यात्मने । अस्मृताविति किम् । हरे संजानन्तः ॥
-
१ यी सी निमाडी निच्छमा, २ सी सनाग'. ३ ५ मगिरि . ४ ए प्रत्युना. ५ सी डी ना । प्र