________________
घ्याश्रयमहाकाव्य
[मूलराजः]
कादित्वात्समासः । [३. १.७८.] । एतेन विनयोक्तिः । अत एव पितृणवर्जिताः । पितॄणामृणमपत्याभावस्तेन वर्जिताः पुत्रवन्त इत्यर्थः । भवति हि पूज्यपूजकानां पुत्रादिसमृद्धिः ।।
होतृतं पोनृतं मातृलतं पिल्लतमुद्गृणन् ।
अत्र स्याजडजिद्दोपि वाग्मी विद्यामठे पठन् ॥ ७॥ ७. अत्र पुरे । मठश्छात्राद्यालयः । विद्यायै मठो विद्यामठो धर्माद्यर्थमुपाध्यायच्छात्राणां भोजनाच्छादनादिसामग्र्योपेत ईश्वरैः कारितो वेश्मविशेषस्तन । जातावेकवचनम् । विद्यामठेष्वित्यर्थः । जडा वर्णमात्रोचारणेप्यपट्टी जिह्वा यस्य स जडॅजिद्दोग्युपाध्यायाध्यापैननैपुण्येन होतृत्-पोल्लुत्मातृनन-पिल्लन्-शब्दान दुरुच्चार्यानप्युद्गृणन्नुच्चाग्यनं सन् वाग्मी पटुवाक् स्यात् । जडजिह्वा हि जिह्वापाटवाय विषमवर्णानुच्चार्यन्ते ।
अमुप्मिन्पुरुषार्थानां त्रिरूपत्वव्यवस्थितिः।
लकारस्य ऋकारेण संधाविव विराजते ॥८॥ ८. अमुष्मिन् पुरे पुरुषार्थानां धर्मार्थकामानां त्रिरूपत्वव्यवस्थितिः । त्रीणि रूपाणि स्वरूपाणि येषां तेषां भावनिरूपत्वं तस्य व्यवस्थितियं. वस्था विराजते । परस्परौनावाँधया स्वस्ववेलायां प्रवर्तनेन धर्मार्थकामानां श्रीणि रूपाणि व्यवस्थितानि शोभन्त इत्यर्थः । यथा । लकारस्य ऋकारेण सह संधौ त्रिरूपत्वव्यवस्थिनिः । कृकारः । क्लत्रकारः । कृकारः । इत्येवं रूपत्रयव्यवस्था राजते ॥
-
१सी पूज. २ वी मठ छात्रा. ३ सी टप्यु. ४ सी पन ५वी "पुगेन. ६ ए एफ 'त् श', ७ सी डी 'न् वा. ८ सी डी जिहो हि. १ सी पुर. १० ए णि . ११ सी व्यस्थि १२ यी 'राना १३ सी पाया. १४ एफ 'णि स्वल्पाणि व्य'. १५ सी स्थितिशो.