________________
घ्याश्रयमहाकाव्ये सप्तमः सर्गः।
मौलराजिः सोथ पृथ्वी पार्थो न्वैलो नु पालयन् ।
राज्ञां प्रभवति स्मोचैगुणवृद्धिमनोहरः॥१॥ १. अथ स मौलराजिश्चामुण्डराजो राज्ञां प्रभवति स्म प्रभुरभू. दित्यर्थः । कीक्सन् । उचैरुदात्तानां गुणानी शौर्यादीनां या वृद्धिः स्फीतता तया। यद्वा । गुणाश्च वृद्धिश्च कोशसैन्यादिवर्धनं 'गुणमूला वृद्धिः' इति गुणानामच्यत्वात्प्राग्निपाते ताभिः । मनोहरः । अत एव पार्थो नु । पृथाया अपत्यम् "अदोनदी" [६-१.६६] इत्यादिनाए । युधिष्ठिर इव । ऐलो तु । इलाया अपत्यम् प्राग्वदण् पुरुरवा इव पृथ्वी पालयन् ।।
गुणवृद्धीत्यनेन "वृद्धिरादौत्" [२] गुणोरेदोत्" [२] इति संज्ञासूत्रे सू. चिते। तयोश्च प्रयोजनम् । पालयन् । पार्थः । ऐलः । मौलराजिः । इत्यत्र - "वृद्धिः स्वरेपु" [७.४.१] इत्यादिनारदौतः ॥ मनोहरः । पालयन् । प्रभवति । इत्यत्र च "नामिनो गुणोछिति" [४.३..] इत्यरेदोतः ॥ प्रभवति । इत्यत्र "क्रियार्थो धातुः" [3] इति क्रियाओं भूशब्दो धातुसंज्ञा
नौत्सुकायत स कापि कीयै सोभ्यमनायत ।
अदीयत मही तेन तेनादीयन्त च द्विपः ॥ २॥ २. से चामुण्डराजः क्वापि कस्मिन्नपि कार्ये नौत्सुकायत नोत्सुक्य१ सीडी ना सौर्या. २ सी डी स का. ३ सीडी ये चामुण्डराजः नौ..