________________
[है० १.१.३.]
प्रथमः सर्गः ।
रिप्रभृतितार्किकाणां च परिग्रहः । लोकं वैयाकरणसमयविदं प्रमाणविदं च प्राप्य शब्दसिद्धिः साधुशब्दनिष्पत्तिरनघासाधुत्वदोषरहिता सती जयति । अथवात्र श्लोक इहेत्यध्याहार्यम् । सिद्धिन्यवस्थित्यपेक्षया च गम्ययत्वम् । ततोयमर्थः । सालातुरीयादिलोकमाश्रित्य यानघा शब्दसिद्धिर्ये प्रयोगार्हाः शब्दा: सिद्धाः सा यथेह प्रबन्धे जयति। इयं हि काव्यफला काव्ये चात्र शब्दानुशासनक्रमानतिक्रमेण निवध्यमानेषु शब्देषु स्वफलप्राप्त्योत्कर्षवती भवति तथा चौलुक्यवंशं प्राप्य यानघा नयधर्मव्यवस्थिति: सेह प्रारभ्यमाणे प्रवन्ध आधारे जयति । इयं चानघत्वेन स्वयमेवोत्कृष्टाप्यस्मिन्काव्ये निवध्यमाना विशेषेणोत्कृष्टा भवतीत्यर्थः । भवति हि विशिष्टाधारकृतो विशेषो यथा राजा सर्वाङ्गभूषितोपि रूपात्रमपि यदास्थानमण्डपे सिंहासनमध्यारोहति तदान्यां कां चन शोभां लभत एवमत्रापीति । अत्र च व्याख्याने लोकात्सालातुरीयादेरित्यत्र शब्दसिद्धिः सामान्योक्तावपि श्रीहेमचन्द्रसूरिकृतात्र कान्ये. भिधेयत्वेनाववोध्या खोपज्ञतया तत्क्रमानतिक्रमेणैवात्र सिद्धशब्दानां प्रयोगात् । एतेन चास्य काव्यस्य खोपज्ञशब्दानुशासनसंसिद्धशब्दैश्चौलुक्यनयधर्मव्यवस्थित्या च सहाभिधानाभिधेयलक्षणः संबन्ध उक्तः । प्रयोजनं च सिद्धानां शब्दानां काव्यविषयं प्रयोगज्ञानम् । नयधर्मव्यवस्थितिज्ञानं चानन्तरम् । परंपरं च सिद्धशब्दप्रयोगज्ञानेभीष्टदेवतादिस्तुत्यादिक्रमेण नयधर्मव्यवस्थितिज्ञानेन च नयधर्मानुष्ठानादिक्रमेण निःश्रेयसमुक्तम् । तथास्य द्वयोराश्रयत्वाद् ब्याश्रय इत्यन्वर्थ नामापि व्यश्चितम्॥ लोकात् । इत्यादिना "लोकात्" [३] इति सूत्रार्थः सूचितः ।।
१ सी डी °द च. २ सीडी येन प्र. ३ एफ स्वमे. ४ सीडी पमात्र. ५ वी सी डी सिद्धेः सा. ६ सी झ्यवंशस्य न.डी क्यवंश्यस्य न. ७ एफ र च. ८ सी डी त्या क्र. ९ एफ स्थितिः । शा. १० बी त्यर्थना. सी त्यना. ११ एफ मातिव्य.