________________
-
-
५००
व्याश्नयमहाकाव्ये [मूलराजः] रसादनन्यार्थपरैश्च धेनुंभव्यासुतौ न्वस्पृहितान्यदौँ । दृष्टौ सुरैः स्वैस्त्वकृतान्यदास्थान्यद्रागमेतौ युदनन्यदूती ॥ ९०॥ ___ ९०. एतौ कुमारलाटावनन्यार्थपरैरनन्यप्रयोजननिष्ठैरद्भुतरणकारित्वात्तदर्शन एवात्यन्तासक्तैरित्यर्थः । सुरैर्देवै रसात्कौतुकात् स्वैस्तु स्वकीयसैन्यैः पुनरकृतावन्यदास्थान्यस्मिन्स्वप्रमोरितरस्मिन्नास्थालम्बनमन्यद्रागोन्यस्मिन्स्वप्रमोरितरस्मिन् रागः स्नेहश्च यत्र तद्यथा स्यादेवं दृष्टौ च । चः पूर्ववाक्यार्थापेक्षया समुच्चये । किंभूतौ सन्तौ । अस्पृहितोन्यः प्रस्तावाद्रणादपरोर्थः कार्य यकाभ्यां तौ तथात एव युधः सकाशादविद्यमानान्यत्रोतिः संबन्ध आसक्तिर्ययोस्तौ तथात्यन्तं रणासक्तों । धेनुभव्यासुतौ न्विति । यथा प्रधानगोपुत्रौ महाशण्डावस्थ हितान्यदों युदनन्यदूतो सन्तावनन्यार्थपरैलॊकै रसादृश्येते ॥ किमन्यदाँशीर्वचनान्यदाशान्यदास्थितत्त्वैरिति न व्यधत्ताम् । तदान्यदुत्सुक्यमिमौ जयस्यान्यत्कारकेस्याद्धि यशोन्यदीयम्
॥९१॥ ९१. इमौ कुमारलाटौ तदान्यस्मिन्मित्रभृत्यादावुत्सुकावुत्कण्ठितावन्यदुत्सुको तयोर्भाव आन्यदुत्सुक्यं तन्न व्यधत्तां विजये कस्यापि साहाय्यं नापेक्षितवन्तावित्यर्थः । कुत इति हेतोस्तमेवाह । हि यस्माद्धेतोर्जयस्य कर्मणान्यो यः कारकस्तस्मिन्नन्यत्कारके स्वस्मादितरस्मिन्विधातरि सति यशोन्यदीयमन्यसंबन्धि स्यात्तस्मादन्यस्मिन्ख• स्मादितरस्मिन्मित्रभृत्यादौ साहाय्यकर आशीर्वचनानि त्व महिषों जीया इत्यादिमनालशंसनान्यन्यदाशीर्वचनानि तथा स्वादन्यस्मिन्मि१ सी कृदा. २ ए सी युनन. ३ वी दासीर्व'. ४ ए सी कारेके. १ ए सी सत्कैरि. २ ए सी डी न्यदला. ३ डी 'त्यन्तर'. ४ ए सी सादृश्यते।. ५ ए सी कारेके. ६ ए सी डी न्यदा, ७ ए सा तस्मान्यस्मि. बी तथा अस्मि'.
-
-
-
-
-