________________
[हे. ३.२.१०९.]
षष्ठः सर्गः।
४९९
गिलस्य गिलो गिलगिलस्तिमीनां गिलगिलस्तिमिगिलं गिलति वा तिमिगिलगिलस्तस्य भावस्तैमिगिलगिल्यं महत्तमतिमिनिगलनं तेन चात्र रणस्याब्धित्वेन रूप्यमाणत्वाद्भटनिगलनशकमहाभटनिगलनमाक्षिप्यते । रणान्धौ तैमिंगिलगिल्यं भजतो यौ तौ । तथा रात्रिचरारिरात्रिचरराजावप्युक्तविशेषणोपेतौ मिथ उष्णंकरणायाभूताम् । यावयब्धिमिगिलगिल्यभाजौ तिमिगिलगिलौ महामत्स्यौ स्यातां तावपि मिथ उष्णंकरणाय भवतः ॥ तैर्थकरे तैर्थकरान्तरे वा कथानकेप्यश्रुतपूर्वयुद्धे । भूधेनुभव्यापराज रात्रिमन्यं दिनं चक्रतुरायुधैस्तौ ॥ ८९॥
८९. हे धेनुश्वासौ भव्या च धेनुभव्या भूरेव रत्नपयोदोहहेतुत्वाद्धेनुभव्या तत्र वृषराज वल्लभवाद्वृषभश्रेष्ठ तौ कुमारलाटावायुधैः कृत्वा दिनं रात्रिमन्यं चक्रतुः । क । अश्रुतपूर्वयुद्धभूतपूर्वत्वेनाश्रुतपूर्व यद्युद्धं तस्मिन्निरुपमे युद्धे । काश्रुतपूर्वमित्याह । कथानकेपि । आस्तां सांप्रतमित्यपेरर्थः । किंभूते कथानके । तैथंकरे । तीर्थंकरो भगवानहस्तदुपलक्षितः कालोप्युपचारात्तीर्थकरस्तत्र भवे विद्यमानतीर्थकरकालभवे भरतबाहुवलिकथादौ। तैर्थकरान्तरे वा । तीर्थकरान्तरालकालभवे वा रामायणादिकथायाम् । कचित् 'अश्रुतपूर्वबुद्धे' इति पाठस्तदा तैथैकरे तैर्थकरान्तरे वा कथानकेपि सर्वोत्तमत्वेन न श्रुतपूर्वा घुद्धियस्य तस्य राज्ञः संबोधनम् ॥
-
१ सी रात्रि.
१बी निगिल'. २ ए सी हाप्यम'. ३ ए सी मिव उ. ४ ए सी स्वेमाश्रु. ५ डी त्यर्थः ।. ६ ए सी स्तलुप° ७ सीतीर्थक. ८ एसी 'मायिणा.