________________
ब्याश्रयमहाकाव्ये
[मूलराजः]
४९४
शर्षिकाः । अन्न "शीर्षः" [...] इत्यादिना शीर्षः ॥ उदपेपम् । उदधिकुम्भ । उदवास । उदवाहनाः । अत्र "उदकस्य" [१०४] इत्यादिनोदः ॥ भिन्नोन्य आशूदककुम्भभेत्रोदकुम्भवत्स्वप्रिययोदहार्या । साश्रूदविन्दकविन्दुपयोक्ष्यमाण आपोदकहारभूषाम् ॥८॥
८०. अन्यो भट उदकहारभूषामुदकबिन्दूनां हाराकारेण पातादुदकस्य यो हारस्तस्य भूषां शोभामाप । कीटक्सन् । उदकुम्भवद्यथा जलंघट उदककुम्भभेत्रा जलघटभेदकेन नरेण भिद्यत एवमाशु भिन्नः कुमारभटेन केनचिद्विदारितः । अत एवोदहार्या पत्युर्जलपानाद्यर्थं जलमानेच्या स्वप्रिययोक्ष्यमाणः सिच्यमानः । कया कृत्वा । अश्रूणि पतिदु.खोद्भूतकष्टोत्थानि नेत्रजलानि तान्येवोदबिन्दवो जलकणाः सह तैर्या सा तथा योदकबिन्दुपतिमूर्छापनोदाय प्रक्षिप्ता जलकणश्रेणिस्तया ॥ सिन्धुदमन्थोदकमन्थजेभोदवज्रनादोगुंदकौदनादी। उदौदनं नूदकवज्रभीमासिना निपिष्टोपि ननर्त कश्चित् ॥ ८१॥
८१. कश्चिद्भटो ननत महाशूरत्वाद्रणचिकीर्षया ववला । कीदृशः। अश्य एवोदकमिश्र ओदनोर्युदकोदनस्तमत्तीत्येवंशीलः। महाबलत्वादनायासेनारिविनाशक इत्यर्थः । अत एव सिन्धोरब्धेर्य उदकं मथ्यतेनेन "पुंनाम्नि" [५.३.१३०] घे उदमन्थो मन्दरस्तेन य उदकमन्थो जलविलो.
१ ए सी दभिन्यो'. २ ए सी कमिन्थ'.
१ ए सी शोपिं. २ वी लकुम्म उ. ३ बी 'नार्थ. ४ डी 4 कुभमा । ५ ए सी 'तिदुपोद्भ. ६ ए सी अ उद'.