________________
४८८ व्याश्रयमहाकाव्ये
[मूलराजः] पुविजये न शक्ता: किंभूताः । षोडद्वृषाभा अपि । अपिरत्रापि योज्यः । षड़न्ता यस्य स षोडन् युवेत्यर्थः । यो वृषो वृषभो बलयौवनादिना तत्समा अपि । तथा षोढा मौलबल १ भृतकबल २ श्रेणिबल ३ अ. रिबल ४ सुहृद्धल ५ आटविकबल ६ भेदैः षड्विधेन बलेन सैन्येन युता अपि । युक्तं चैतद्यतः षड़ा षभिः प्रकारैस्तथैकादश वारानथ तथा षोडश वारांश्च श्वपुच्छं नमितमजूकृतं न चर्जु न च सरलं स्यात्तथास्वभावत्वात् ॥ वीकाशम् । अन्न "नामिनः काशे" [८७] इति दीर्घः ॥ नीत्त । इत्यत्र "दस्ति" [८] इति दीर्घः ॥
मुनीवहम् । अत्र "अपील्वादेवहे" [८९] इति दीर्घः ॥ अपील्वादेरिति किम् । पीलुवहम् ॥
श्वाकूर्दकैः । अत्र “शुनः" [२०] इति दीर्घः ॥ बहुलाधिकाराक्कचिद्विकल्पः । वापुच्छ धपुच्छम् ॥ कचिद्विषयान्तरे । व्याघ्रादौ श्वापद । शुनः पदे श्वपद ॥ कचिन स्यात् वमुखैः॥
एकादश । षोडश । पोडत् । षोढा । षड्डा । इत्येते "एकादश"[११] इत्यादिना निपात्याः ॥ द्वित्रा अथ द्वादश वा त्रयोदशाष्टादशाथ द्विशतं यशीत्या । लाटेश्वराः सन्तु स तांत्रिचत्वारिंशद्गजोर्जेतुमलं कुमारः ॥७२॥
७२. द्वित्रा द्वौ वा त्रयो वाथाथ वा द्वादश त्रयोदश वाथाथ वाष्टादशाथ वा बशीत्या सह द्विशतं लाटेश्वराः सन्तु तथापि स कुमारस्ता
१ सी शक्का पो. २५ भूता पो'. ३ ए सी डीर्थः । वृ. ४ ए सा डील मृ. ५ ए सी न्येतयु. ६ए सी षर्यातरे. ७एसी शुन प. ८ ए सी षड्डा । ६. डी षड्डा । ६.