SearchBrowseAboutContactDonate
Page Preview
Page 526
Loading...
Download File
Download File
Page Text
________________ ब्याश्रयमहाकाव्ये [मूलराजः] ४८२ गिरिः साल्वागिरिः । अञ्जना वृक्षभेदास्तेषां गिरिरञ्जनस्य कजलस्य वाश्रयो गिरिरखनागिरिरेवनामको गिरिभेदौ ॥ भष्टाकपालं हविः । अत्र "हविपि" [७३] इत्यादिना दीर्घः ॥ भष्टागवैर्युग्यैः । अत्र “गवि" [७४] इत्यादिना दीर्घः ॥ अष्टापद । इत्यत्र "नानि" [७५] इति दीर्घः ॥ कोटरावण । मिश्रकावण । सिध्रकावण । पुरगावण । सारिकावण । इत्यत्र "कोटर" [७६] इत्यादिना दीर्घः ॥ अञ्जनागिरि । साल्वागिरि । इत्यत्र "अञ्जन" [७७] इत्यादिना दीर्घः ॥ ज्ञातापि राजात्यमरावतीशभोगावती सुतमुत्सुकोयम् । शरावतीशाजिरवत्यलंकारवत्यधीशांश्च युधे दिदेश ॥ ६२ ॥ ६२. अयं राजा मूलराजः शरावत्यजिरवत्यलंकारवत्याख्यपुरीनपांच । चः पूर्वादिष्टनृपापेक्षया समुचये । युधे दिदेशाज्ञापयत् । सुतं बलेनामरावतीशभोगावतीशौ शक्रशेषाही अतिक्रान्तं ज्ञाताप्युत्सुक उत्कण्ठितः प्रेमातिरेकात्पुत्रपरिभवाशवाकुलचित्तः सन्नित्यर्थः ।। बहुवर। अमरावती ॥ शरादि । शरावती । इस्यन्त्र "अनजिरादि" [७८] इत्यादिना दीर्घः ।। बहुवचनमाकृतिगणार्थम् । तेन भोगावती ॥ बहुसरस्थानजिरादिविशेषणं किम् । भजिरवती । अलंकारवती ॥ वैश्वानरो नु प्रभयातिविश्वामित्रः स विश्वावसुगीतकीर्तिः । दन्तावलान्प्रेरयति स्म विश्वाराद्विश्वराजोपि च वत्सलत्वात्॥६३॥ ६३. स नृपो वत्सलत्वात्पुत्रवात्सल्याद्धेतोर्दन्तावलान् गजान् १ ए सी मुत्सको. १ए सी हवि । म. २ ए सी इत्यात्र. ३ बी काव. ४ ए सी डी म पू. ५ वी "ण्ठित प्रे. ६ सी दीर्घ । ब.
SR No.010714
Book TitleDwashraya Mahakavyam
Original Sutra AuthorN/A
AuthorAbhaytilak Gani
PublisherManfara S M Jain Sangh
Publication Year1983
Total Pages861
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy