________________
४८०
व्याश्रयमहाकाव्ये
[चामुण्डराजः]
महाविशिष्टं च महाकरं च क्षिप्त्वा महाघासभुगुक्षमत्तः । महाबलान्यत्वरयन्महाजातीयावलेपेन महाभुजः सः ॥५८॥
५८. स लाटो महान्प्रकारोस्य महाजातीयो महान्योवलेपो बलादिकृतोहंकारस्तेन कृत्वा महाबलान्यत्वरययुद्धाय प्रेरितवान् । किं कृत्वा । महाविशिष्टं च महत्या राज्यादेः प्रधानं महाकरं च महत्याराक्यादेहस्तं च क्षित्वा तिरस्कृत्य । अनेनापि स्खलनरूपमनिमित्तमस्योक्तम् । यता महत्या अरण्यान्या यो घासस्तं भुते य उक्षा वृषस्तद. न्मत्तः । एतदपि कुत इत्याह । यतो महाभुजः ॥
श्रुत्वा महद्भूतवलं तु यष्टायष्टयुत्सुकं मामहतीप्रियं तम् । चामुण्डराजोपि चचाल यष्टीयष्टयस्यसिक्रीडनकौतुकेन ॥५९॥
५९. चामुण्डराजोपि चचाल। किं कृत्वा । क्ष्मया पृथव्या कृत्वा महती प्रिया भार्या यस्य तं विशालभूवधूकं तं तु लाटं पुनः श्रुत्वा । किंभूतम् । यष्टायष्टि यष्टिभिश्न यष्टिभिश्चे मिथः प्रहृत्य कृते युद्ध उत्सुकमत एव युयुत्सयानेकस्थानकेभ्यो मिलितत्वादमहन्महद्भूतं संपन्न बलं सैन्यं यस्य तम् । युधि प्रगुणीभूतमित्यर्थः । केन हेतुना चचाल । यष्टीयष्टि यष्टिप्रहरणोपाधिके युद्धेस्यस्यसिपहरणोपाधिके युद्धे च वि. षये क्रीडनकौतुकेनातिशूरत्वेनास्य युद्धस्य सुखसाध्यमानित्वादत्यन्ताभिलाषुकत्वाञ्च क्रीडाकुतूहलेन ॥
महाकरम् । महाघास । महाविशिष्टम् । इत्यत्र "स्त्रियाम्" [६९] इति डाः॥
१डी तीयोव.
१ ए सी महोजा. २ ए सी डी मुक्ते य. ३ डी यष्टयुत्सुक य. ४ ए सी टिभिव. ५ ए सी श्च मथः. ६ ए सी स्थानेके. ७ बी युधे प्र. ८ सी क्रोडान.