________________
[है० ३.२.६२.]
षष्ठः सर्गः।
४७७
0
नैनच्चलेचलि दिनं चलन्तीचेल्या भैवोच्चैरचलन्तिचेली। याद्गोत्रया यास्यनयाथ यान्तीगोत्रे नु गा मा तदयान्तिगोत्राम्
॥५३॥ समं लपन्तीमतया लपन्तिमता स्म मा भूरलपन्मते त्वम् । काश्च्या रसन्तीहतया रसन्तिहते कृथा मा स्म रसद्धतां द्याम् ॥५४॥ गार्गिवे वात्सितरे कुमारिकल्पौरिसरूपे कठिचेलि यात । प्रतीक्ष्यते चण्डितमा किमाङ्गिहतेयमात्रेयिमतौविगोत्रा ॥ ५५ ॥ पङ्गुब्रुवा भोगवतिब्रुवेयं त्रुवा गौरिमतिबुवासौ । अस्त्रीतराश्च स्त्रितरास्तथोचुः सविड्वरायामिति लाटपुर्याम् ॥५६॥ ___५३-५६. सविवरायां सोपद्रवायां लाटपुर्यामन्त्रीतराश्चाप्रकृष्टा: स्त्रियश्च तथा स्त्रितराः प्रकृष्टस्त्रियश्वेतीदमूचुः । तदेवाह । हे चलच्चेलि मन्दगतित्वान्निन्द्यगमने चलन्तीचेल्या मन्दगतिकाया नैतदिनं भयेन नश्यमानत्वाच्छीव्रगतेरेवायमवसर इत्यर्थः । तस्मादुचैरतिशयेनाचलन्तिचेली शीव्रगमना भव । अथ यदि हे यान्तीगोत्रे निन्द्यगमनेनया प्रत्यक्षया याद्गोत्रया निन्द्ययानया सह यासि तत्तदायान्तिगोत्रामनिन्धगमनाम् । मामित्यर्थः । मानुयासीमत्पृष्ठे मा स्म लग इत्यर्थः । तथा हेलपन्मतेवाचाले लपन्तीमतया वाचाटयासमंसह त्वं लपन्तिमता वाचाटा मा स्म भूः। भयेन निभृतं नश्यमानत्वेन शब्दस्यानवसरात् । तथा रसन्तीहतया शब्दस्यानवसरेण निन्द्यशब्दया काच्या कृत्वा हे रसन्तिहते
१ ए सी नैतिच्च'. २ ए सी लच्चैलि° ३ ए सी मवैच्चै ४ बी या प्रया . ५ ए सी द्धता था. ६ ए सी तौविगो'. ७ ए सी डी पड . ८ ए सी योचु स.
१ ए सी °या पत्य. २ ए सी डी निन्धासन. ३ डी सह ल. ४ बी सरणे नि.