________________
व्याश्रयमहाकाव्ये
[मूलगज] सा ज्यायसिमाक्तरपुर्यभान्तीरूपैणनेत्राभिरभान्तिरूपा । नद्या नदन्तीतमया नदन्तितमप्रजाभिश्च नदत्तमाभूत् ॥५१॥
५१. सा लाटेशसत्का ज्यायसिप्राक्तरपुरी ज्यायसितरपुर्यत्यन्तं प्रशस्या वृद्धा वा नगरी भृगुकच्छाख्या प्रशस्ता भान्ती भौन्तिरूपा न तथाभान्तिरूपाशोभमानाभूत् । काभिः कृत्वा । अभान्तीरूपा भयव्याकुलत्वेनाशोभमाना या एणनेत्रास्ताभिः। तथा नदत्तमाव्यक्तशब्दमय्यभून् । काभिः कृत्वा । नदन्तीतमया भयत्रस्तलोकप्रवेशेनाव्यक्तं शब्दायमानया नद्यातिसमीपस्थया नर्मदाख्यनद्या नदन्तितमप्रजाभिश्वात्य॑न्तं कोलाहलं कुर्वाणलोंकैश्च ।। भाद्रूपताभूत्पुरि यान्तिकल्पा यात्कल्पलक्ष्म्यां स्फुरतीब्रुवायाम् । स्फुरबुवाभूजनता प्रयान्तीकल्पस्फुरन्तित्रुवजीवया च ॥ ५२ ।।
भाद्रूपता। प्रशस्यशोभेत्यर्थः । यान्तिकल्पा नश्यत्प्रायाभूत् । कीदृश्यां सत्याम् । यात्कल्पलक्ष्म्यां वास्तव्यजननाशानश्यत्प्रायसमृद्धावत एव स्फुरती विलसन्ती या ब्रुवा कुत्सिता तस्याम् । निन्दितशोभायामित्यर्थः । तथा जनता जनौघश्च स्फुरद्वा निन्दितस्फुरणाभूत् । कया कृत्वा । प्रयान्तीकल्पा भयेन नश्यन्तीप्रायात एव स्फुरन्ती ब्रुवा कुत्सितं निश्वसन्ती या जीवा प्राणा । जीवः प्राणेषु केदार इति वचनात्रिलिङ्गः । तया ।।
१ बी रूपेण'.
१ ए सी न्त अश. २ ए सी सी रू. ३ बी नातिरू. ४ ए सी डी पा य. ५ ए सी त्वेन शो'. ६ ए सी मज्यमू'. ७बी न्दामा ८ सी त्यन्तको'. ९ ए सी रि सादू. १० ए सी निश्विस.