SearchBrowseAboutContactDonate
Page Preview
Page 519
Loading...
Download File
Download File
Page Text
________________ [है० ३.२.६१.] षष्ठः सर्गः। ४७५ सर्वबालाः । यथा । तथा । तत्र । इत्यत्र "सर्वादयोस्यादौ" [६] इति पुं. वत् ॥ अस्यादाविति किम् । सर्वासु ॥ प्रियं मृगक्षीरमभून्न ते प्राक्पेयं मृगीक्षीरमतः परेण । पचत्तरेत्थं मृगशावमुक्त्वा नष्टा मृगीशावविलोचनाभिः॥४९॥ ४९. पचत्तरा प्रकृष्टा पाचिका राजादिसूपकारी मृगीशावविलोचनाभिर्मगीवालवद्भयचटुलविशालाक्षीभिः स्त्रीभिः सह नष्टा । किं कृत्वा । मृगशावं हेरिणीपोतमुक्त्वा । कथमित्याह । हे मृगशाव मृगीपोतक प्राक्पूर्व ते तव सुखादुदुग्धाद्यास्वादनेन मृगक्षीरं हरिणीदुग्धं निरास्वादत्वेन प्रियं नादतः परेणातोनन्तरं मृगीक्षीरं हरिणीदुग्धं पेयमित्थम् । राजादिसूपकार्यो हि मांसपाकस्यातिसुखादुतार्थ मृगशावादीन् दुग्धादिभव्याहारैः पोषयन्ति ॥ लाव्यः पचन्तीतरया पचन्तितरा इवोष्णांशुरुचाभितप्ताः । ज्यायस्तरोरोजतटीं कटीं ज्यायसीतरां त्रासजुपो निनिन्दुः॥५०॥ ५०. लाट्यो लाटदेशलियो ज्यायस्तरोरोजतटीमुपचिततरस्तनाभोगं ज्यायसीतरां कटीं च गतिविघ्नत्वान्निनिन्दुः । कीदृश्यः सत्यः । पचन्तितरा इव । यथा प्रकृष्टपाचिकाः सदाग्निसांनिध्यादभितप्ताः स्युरेवं पंचन्तीवरयातिशयेन संतापिकयोष्णांशुरुचाभितप्ताः । तथा त्रासजुषोरिचक्रागमेनेन भीताश्च ॥ - १५ सी चन्तरा. २ए सी शुरचातित. १ ए सी स्त्रीमि स. २ ए सी हरणी. ३ ए सी डी पोतं मु. ४५ सी ततक. ५ सी प्रियमाभूतः । १.६ ए भूतः। पडी भूत् । १.७५ सी रणतो. ८बी इशाः स. ९एसी सत्य प. १० ए सी मिसाध्या . २१ ए सी पचीत. १२ सी मवे मीनाक्ष. १३ ए ने मी.
SR No.010714
Book TitleDwashraya Mahakavyam
Original Sutra AuthorN/A
AuthorAbhaytilak Gani
PublisherManfara S M Jain Sangh
Publication Year1983
Total Pages861
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy