________________
४७४
व्याश्रयमहाकाव्ये
[मूलराजः]
पफीणां भावं विहाय पलायकत्वं पलायिकानां भावं जगृहुः । तत. स्तासां परस्त्रीणाममहती महतीभूता महद्भूता या भीस्तयैक्यभाजां मिथोभिन्नानां सतीनां न म्लेच्छीत्वमन्त्यजातित्वं नो वा कठीताज्ञायि॥ या गोमतीभूय चिराय पट्वीभूताः प्रजास्ता अपटूभवन्त्यः। तथाद्रवंस्तत्रं यथा निपेतुः सर्वासु रथ्यास्वपि सर्वबालाः ॥४८॥
१८. याः प्रजा गोमतीभूय गावः सन्त्यासां ता गोमत्योगोमत्यो गोमत्यो भूत्वोपलक्षणत्वान्मद्धिकीभूयेत्यर्थः । चिराय चिरकालं पट्टीभूता महर्दिकत्वाद्याश्चिरं सौजस्का आसन्नित्यर्थः । ताः प्रजाँ ऋद्धिविगमाशङ्खयापटूभवेन्यः सत्यस्तत्र पुयाँ तथा तया प्रकृत्याद्रवपरचक्रागमनभयेन नष्टा यथा यया प्रकृत्या सर्वास्वपि रथ्यासु सर्वबालाः सर्वासां प्रजानां बालका बालिकाश्च निपेतुरत्यौत्सुक्ययानेन मिथः संमर्देन च कटीभ्यो निपतिताः ।।
पसजातीय । मद्रकजातीय । नायकजातीय । भानदेशीया । इत्यत्र "रिति" [५८] इति पुंवत् ॥
व्याकुलस्वापटुते । अत्र "स्वते गुणः" [५९] इति पुंवत् ॥ गुण इति किम् । म्लेच्छीत्वम् । कठीता ॥ केचित्तु जातिसंज्ञावर्जितस्य विशेषणमात्रस्य पुंवद्रावमिछन्ति । पलायकत्वम् । पाचकताम् ॥
महद्भूतभिया । इत्यत्र “चौ कचित्" [६०] इति पुंवत् ॥ कचिङ्गहणागोमतीभूयेत्यादौ न स्यादेव ॥ पट्टीभूताः । अपटूभवन्त्यः । इत्यादौ विकल्पः ॥
१ए सीडीत्र सपा.
१बी लायका. २ सी या प्र. ३ ए सी जसक' आ. ४ ए सी हो बारुवि. ५ ए सी वन्त्य स. ६ए सी डी 'कृष्टा स. ७एडी
तीयः । म