________________
[है० ३.२.५७.] षष्ठः सर्गः।
४७३ . "नाप्रियादी" [५३] इत्युक्तम् । तत्रापि भव्यप्रियाम् । "तद्धितीककोपा. न्यपूरणाख्याः" [५४] इत्युक्तम् । तत्रापि रौचनिकोत्पटीम् । द्रावकवीक्षणीयाम् । एकादशमूर्तिः । दत्तभार्या । "तद्धितः स्वरवृद्धिहेतुररक्तविकारे" [५५] इत्युक्तम् । तत्रापि वैदिशनारी । “स्वागद हीर्जातिश्चामानिनि"[५६] इत्युक्तम् । तत्रापि दीर्घकेशपौरी । कठस्त्री । दारददत्तभार्या । अत्र "पुंवत्कर्मधारये" [५७] इति पुंवत् ॥ नद्यां वसत्स्नायकमद्रकाद्यजातीयनारीभिरभिगुताभिः । पुरी द्विषोभूदथ भग्नदेशीया व्याकुलत्वापटुते प्रपन्ना ॥ ४६ ॥
४६. अथ द्विपो लाटस्य पुरी भग्नदेशीयोपप्लुतप्रायाभूद्यतो व्याकुलत्वापटुते भीतिं किंकर्तव्यतामूढतां च प्रपन्नाश्रिता । काभिहेंतुभिः । नद्यां श्वभ्रवत्यां वसत्लायकमद्रकाद्यजातीयनारीभिर्वसत्तायकमद्रकेति शब्दा आद्या यस्य स तथा जातीयेति शब्दो यासां तास्तथा या नार्यस्ताभिर्वसज्जातीयस्नायकजातीयमद्रकजातीयनारीभिवसन्त्यः नायिका मद्रिकाच प्रकार आसांताभिर्वा स्तव्याभिर्मुनिपनीभिः नायिकाभिमंद्रिकामिर्मद्रदेशोद्भवाभिश्च नारीभिः । कीदृशीभिः । अभिद्रुताभिः । परसैन्यदर्शनोत्थातिभयेन पुराभिमुखं पलायिताभिः । नश्यदायान्तीदृष्ट्रेत्यर्थः ॥ पलायकत्वं जगृहुर्विहाय परस्त्रियः पाचकतामकाण्डे । म्लेच्छीत्वमज्ञायि न नो कठीता तासां महद्भूतभिर्यक्यभानाम्
॥४७॥ ४७. परस्त्रियः शत्रूणां नार्यों भयभीतत्वादकाण्डेप्रस्तावे पाचकतां १ सी पाठक १ ए सी नाप्रिया. २ ए सी ताकाको'. ३ ए सी जानीर्जा. ४९ सी डी प्रपप. बी प्रतिप. ५ ए सी मिविसर्जाती. ६ ए सी डी सत्य • खा. ७ वी व आ. ८ बीमद्रका . सी मंद्रदे'. ९बी अतिदु. १० ए सी 'लायता. डी लायन्तीभिः । ११ ए सी डी दृष्टेय'.
-