________________
४७०
व्याश्रयमहाकाव्ये [चामुण्डराजः] त्वं मद्रिकाम्बो नु सहोसि दत्ताभायं द्वितीयामतिराशु कर्तुम् । आक्रन्दिकाभार्यममुं तथाप्येप्यामो वयं विक्रममीक्षितुं ते ॥४१॥
४१. हे कुमार यद्यपि त्वं द्वितीया लोकेभ्योन्या सर्वोत्कृष्टेत्यर्थः । मतिर्यस्य स तथा सन् दत्ताख्या भार्या यस्य तममुं लाटमाक्रन्दिकाभाय लाटवधेन रुदद्भार्यमाशु कतुं सहोसि शक्तोसि । क इव । मद्रिकाम्बो नु । मद्रेपु भवा । वृजि" [६.३.३८] इत्यादिना के मद्रिकाम्बा माता यस्य स नकुलः सहदेवो वा स इव । तथापि ते तव विक्रममीक्षितुं वयमेष्यामः ।।
तद्धित । मद्रिकाम्बः ॥ अक । आक्रन्दिकाभार्यम् ॥ पूरणी । द्वितीयामतिः ।। आख्या । दत्ताभार्यम् । इत्यन्न "तद्धिताक" [५] इत्यादिना न पुंवत् ॥ तं वैदिशीमातृकमेतु नैयङ्कवीमतिं कुञ्जर एप लाटम् । प्रामोतु नेयङ्कवचुद्धितायाः फलं स माञ्जिष्ठपटीक आरात् ॥४२॥
४२. एष कुञ्जरो वैदिशी विदिशापुर्या भवा जाता वा माता यस्य॑ स तं लाटमेतु । यत: किंभूतम् । न्यकर्मंगभेदः कृष्णखिकेण विपुलः कुटिलस्वभावश्च । तस्येयं नैयङ्कवी सा मतिर्यस्य तं महाकुलक्षणेभप्रेषणात्कुटिलमतिमित्यर्थः । ततश्च स लाटो नैयङ्कवबुद्धिताया अस्याः कूटमते: फलमागददूराच्छीघ्रं प्राप्नोतु । किंभूतः । माजिष्ठी मञ्जिष्ठया रक्ता पटी यस्य सः । लाटदेशे हि माश्लिष्टी पटी भूमिजलादिगुणेनातिसुरङ्गा प्रायः स्यात् ॥
१ ए सी लाधव. २ ए सी डी ससह. ३ ए सी ते व. ४ बी अक् । मा'. ५ ए सी त् । इव । तथापि ते न विक्रममी ॥. ६ ए सी डी °दिशि पु. ७ ए सी डी ता च मा. ८ ए सी स्य तत. बी °स्यत. ९ डी 'तः । म. १. एसी मजिष्ठ'.