________________
[है० ३.१.५६.] षष्ठः सर्गः। व्यसर्जयदेव्यय हैमयष्टिः सेभान्कठीमालकलाटभट्टान् । तेयुः सलज्जाकठमानिमातृकाः पू:सुकेशीललनैईसद्भिः ॥ ४३ ॥
४३. अथ हैमयष्टिः स्वर्णमयदण्डो वेत्री सेभान् गजयुक्तानं कठ्यः शाखाध्ययननिमित्तकठ्यपदेशभाजो ब्राह्मण्यो मातरो येषां ते ये लाटभट्टा लाटाधिपस्य विशिष्टभूता द्विजास्ताव्यसर्जयन्यक्कारपूर्व प्रतिप्रेषितवान् । ततस्ते लाटभट्टा अयुर्लाटपार्श्वे गताः । किंभूताः सन्तः । हसद्भिः पू:सुकेयः पुरस्य प्रवरचिकुरखियो ललनाः कान्ता येषां तैरुपलक्षिताः । न्यकृतत्वात्पौरतरुणैरुपहस्यमाना इत्यर्थः । अत एव सलज्जा अकठमानिन्योकठीरात्मनो मन्यमाना मावरो येषां ते ।।
वैदिशीमाकम् । अत्र "तद्धितः स्वर" [५५] इत्यादिना न पुंवत् ।। स्वरेति किम् । नयझ्वबुद्धितायाः ॥ अन्ये तु वृद्धिमानहेतोगतखदितस्य पुंवप्रतिषेधमिच्छन्ति तन्मते नैयतवीमतिम् ॥ अरकविकार इति किम् । माशिष्ठपटीकः । हैमयष्टिः।
सुकेशीललनः ॥ जाति। कठीमातृक । इत्यत्र "स्वाजा" [५६] इत्यादिनी न पुंवत् ॥ स्वागादिवि किम् । बकठमानिमातृकाः ॥ अमानिनीति किम् । माठमानि ॥ भव्यमियां रौचनिकोत्पटीं नु तन्वंस्त्विषं द्रावकवीक्षणीयाम् । हरेरिबैकादशमूर्तिरेपोन्येयुः कुमारानुगतः प्रतस्थे ।।४४ ॥
४४. अन्येचुरेष मूलराजः कुमारानुगतः प्रतस्थे लाटास्कन्दनाय
-
१९ सी डी न् काठ्यः. २ ए सी "स्वान्विस'. ३ डी श्यः प्र. ४ बी तकः । म. ५ ए सी तोणित'. ६ ए सी 'नापु. ७सी राजक.