________________
४६८
व्याश्रयमहाकाव्ये [चामुण्डराजः] शोभनभार्यकः । अत्र “परतः स्त्री" [१९] इत्यादिना पुंवद्भावः ॥ भन्किति किम् । रम्भोरूभार्यकः ॥ श्येतायितायास्तददर्शनीयमानी स लाटो भवदीयकीर्तेः । इभापदेशादिह दर्शनीयपाशां हि कृत्यां पटयन्दिदेश ॥ ३८॥
३८. तत्तस्माद्धेतोः स प्रसिद्धो लाट इभापदेशाद्गजव्याजादिह त्वसमीपे दर्शनीयपाशां रौद्रत्वात्कुत्सितदर्शनां कृत्यां मारिदेवतां पटयन् पैटी कुर्वन् हि स्फुटं दिदेश तुभ्यं ददौ । कीहक्सन् । श्येतायितायाः श्येनी ज्योत्स्नादिश्वेतपदार्थजातिस्तद्वदाचरन्त्याः । निर्मलाया इत्यर्थः । भवदीयकीर्तेग्दर्शनीयमानी त्वदीयकीर्ति दर्शनायोग्यां मन्यमानस्त्वघशोसहमान इत्यर्थः ।। नीत्वात्रलौहित्यमिषूः पटिष्ठा दारद्यमुन्मूल्य तमानयामि । सहास्तिकांश्चैभवरान्नियुङ्खानेयाते विक्रमरौहिणेय ॥ ३९ ॥
३९. हे आग्नेयद्युतेनायीनामनिभार्याणां षण्णां कृत्तिकानां स्तनपायित्वादपत्यमानेयः स्कन्दस्तत्तुल्यतेजस्क । तां हे विक्रमरौहिणेय शौर्येण बलभद्रतुल्य मूलराज । चः पुनरर्थे भिन्नक्रमो गम्येन त्वमित्यनेन सह योज्यः । त्वं पुन: सहास्तिकान् हस्तिनीसमूहान्वितानिभवरान्पट्टहस्तिन उपलक्षणत्वादश्वानथान्भटांश्च नियुत लाटा. स्कन्दनाय व्यापारय येन दारचं दरदो राझोपत्यं स्त्री "पुरुमगध" [६.१.११६.] इत्यादिनाणो "देरमण" [६.१.१२३.] इत्यादिना लुपि दरद् राज्ञी तत्र साधुं भर्तृत्वाचं लाटमुन्मूल्यानयामि । किं कृत्वा । पटिष्ठा अतितीक्ष्णा इषूरस्रलौहित्यं रक्तेन लोहिनीनां भावमारकता नीत्वा प्रापय्य ॥ १ए सी दारिच.
१ ए सी डी त्वप्समी . २ सी यांशो रौं. ३ एसी पट्टीकु. ४ ए सीय. ५ए सी मेय स्क. ६ डी था वि. ७ सी ज । च पु. ८सी वनार