________________
[है० ३.२.४८. षष्ठः सर्गः। तौ मातरमापिनरावुषासानक्तस्य देवौ यदि पश्चिमायाम् । इहोदयेतां क्वचिदप्युषासासोमौ तदोष्ठे वलिमाशुभोयम् ।। ३६ ।।
३६. तौ प्रसिद्धावुषासानक्तस्य प्रभातराच्योर्मातरप्रापितरौ जनकत्वान्मातरपितरतुल्यावुषासासोमौ सूर्यश्च सोमश्च देवाविह जगति क्वचिदपि कस्मिन्नपि काले यदि पश्चिमायां दिश्युदयेतां तत्तदोष्ठे वलिमान् रेखावानयं गजः शुभः । गजस्यौप्ठे हि वलयो महादोषः ॥ मृगौ च मातापितरावमुष्य श्वासस्तथावस्करगन्धिरेषः । दुःखास्पदं स्यादमुना हि रम्भोरुंभार्यकः शोभनभार्यको वा ३७
३७. मृगौ च मृगजाती च हस्तिनावमुध्य गजस्य मातापितरौ तथामुष्य गजस्यष प्रत्यक्षोपलभ्यमानः श्वासो मुखैवातोवस्करोन्नमलं तत्संबन्धात्तद्देशोप्यवस्करस्तस्येव गन्धो यस्य सोस्त्यत एवामुना गजेन कृत्वा रम्भोरुभार्यकः कदलीस्तम्भसुकुमारोरुभार्योपि शोभनभार्चको वा प्रेमाद्यतिशायिभार्यों वापि नृपादिः प्रकृष्टभार्योपभोगभङ्गहेतुमहाविपदाप्त्या दुःखास्पदं स्यात् ॥
सषासानक्तस्य । इत्यत्र "उपासोषसः" [४६] इत्युपम उपासादेशः ॥ केचित्तु सूर्यशब्दस्यापीच्छन्ति । उपासासोमौ ॥
मातरपितरौ । मातापितरौ । इत्यत्र "मातर" [४७] इत्यादिना मातरपितरेति वा निपात्यते ॥
अवस्कर आस्पदशन्दौ "वर्चस्कादिपु" [१८] इत्यादिना निपात्यौ ॥
१बी डी तदौष्ठे. २ एसी रूतार्य.
१बी डी त्तदौष्ठे. २ ए सी लभ्यः मा. ३ ए सी डी खतो. ४ ए सीपि सोम. ५सी 'स्यत्य'.