________________
४५४ व्याश्रयमहाकाव्ये
[चामुण्डराजः] १६. अत्रान्तरेस्मिन्प्रस्तावे । वेत्री । नाट्ये तु
पताकाभ्यां तु हस्ताभ्यां संश्लेषादञ्जलिः स्मृतः । विनीतत्वात्तद्रुपो हस्ते वन्धो यस्य स तथा सन् । करौ योजयित्वेत्यर्थः । नृपमूचे । कीदृक् । भोगित्वान्मस्तके माल्यं पुष्पमाला यस्य सः । तथा सदा विज्ञापककार्यनिवेदने व्यापृतत्वादर्थे विज्ञापककार्य प्रसक्तः शौण्ड इव मद्यप इवार्थान्मापानेशौण्डः । यदूचे तदाह । राजन् स्वशीर्षे कामो यस्य तेन जीवितुमिच्छता सताङ्गमाङ्गदेशस्वामिनाद्यायं प्रत्यक्षं प्राभृतीकृतो रथस्ते त्वदर्थ प्रैपि । कीदृक् । शोभनश्चक्रे बन्धो रत्नखचितस्वर्णपट्टादिना रथाङ्गे बन्धनं यस्य सः । उपलक्षणत्वादशेषरथगुणोपेत इत्यर्थ. ।।
त्वयेभवन्धो नृपतिः सहस्तेवन्धः कृतो यः कृतचक्रवन्धः। तस्य तिपूर्वाह्नतनांशुमन्पूर्वाह्नेननाजानकरो गजोयम् ॥१७॥
१७. हे अतिपूर्वाह्तनांशुमन्महाप्रतापितया पूर्वाहेभवं सूर्यमतिक्रान्त य इभवन्धो बध्नाति अचि बन्ध इभानां वन्धो वन्धको विन्ध्याद्रिस्वामी नृपतिर्वलिष्ठत्वात्कृतश्चके त्वदीयसैन्ये वन्धो वन्धनं येन । यद्वा कृतश्चके सैन्ये वन्धो यस्य स तथा सन्सह हस्ते बन्धेन सहस्तेवन्धस्त्वया कृतः । जित्वा हस्तयोर्वद्ध इत्यर्थः । तस्यायं प्रत्यक्षो गजस्त्वदर्थ प्राभृतमस्ति । कीहक् । पूर्वाहेतना जाग्रकरः प्रशस्यलक्षणत्वात्प्राभातिकपद्मवद्विकसितरक्तहस्तानः । उपलक्षणत्वाच्छुभलक्षणोपेतसर्वाङ्गः ॥
१ वी तश्रेपा. २ सी Z...प्र. ३ ए कार्यप्र. ४ थी नेथे शौ'. ५ सी य प्रा. ६ ए सी डी दि र. ७ ए सी है इति'. ८ ए बी सीडी 'तमाशु. ९ सीन्सह ते.