________________
[है० ३.२.१३.] षष्ठः सर्गः।
४५३ किं खेचरो गोषुचरो नु विष्णुः शल्योथवा मद्रचरो हृदिस्पृक् । सोतयंताभस्मनिमीढकर्मा मध्येगुरूनन्तगुरूंचे धिन्वन् ॥ १४ ॥
१४. स कुमारोतत । कथमित्याह । किमसौ खेचरो विद्याधरो देवो वा । नु किं वा गोपालावस्थायां गोषु चरति गोषुचरो विष्णुरथवा मद्रेषु चरति मद्रचरो मद्रदेशस्वामी शल्य इति । यतः कीहक् । हृदयं स्पृशति हृदिस्पृरहृदयज्ञ इत्यर्थः । तथा मध्येगुरून् मध्ये मध्यवयसि वर्तमानान् गुरून् पूज्यानन्तगुरूंश्चान्त्यवयसि वर्तमानान् गुरूंश्च धिन्वन्विनयपूजादिना प्रीणयन् । तथा भस्मनि मीढं सेचनं भस्मनिमीढं तदिव कर्म क्रिया यस्य स भस्मनिमीढकर्मा न तथा सफलकर्मा । खेचरादयो हि हृदिस्पृक्तादिगुणान्विताः ।। नृणामनन्तेगुरुरेकदाथ सिंहो नु सोमध्यगुरुः सभायाम् । नृपं प्रणम्योरसिलोमकण्ठेकालोपमं मूर्धशिखो न्यषीदत्॥१५॥ १५. अथैकदा सिंहो नु मृगेन्द्र इवामध्यगुरुः कृशोदरो नृणामनन्तेगुरुः प्रथमपूज्यो मूर्धनि शिखा शिखण्डिका यस्य स मूर्धशिखः कुमारः सभायां न्यषीदत् । किं कृत्वा । नृपं प्रणम्य । किंभूतम् । महापुरुषत्वादुरसि लोमानि यस्य स तां यः कण्ठेकालोपम आश्रितानां सर्वकामपूरकत्वात्सोमनाथतुल्यस्तम् ॥
अत्रान्तरे मस्तकमाल्य ऊचे वेव्यर्थशौण्डोञ्जलिहस्तबन्धः । स्वशीर्षकामेण रथः सुचक्रेबन्धोद्य ते प्रैष्ययमङ्गभा ॥१६॥
१ ए सी
णुः शिल्यो. २ वी श्व धेन्व'. ३ ए सी हो न सो'.
१ ए सी १४ कुमा. २ वी कर्माः खें. ३ वी स्मृक्त्वादि. ४ वीथा सन् यः..