________________
४५२
व्याश्रयमहाकाव्ये [चामुण्डराजः] धातुर्नु शेपः स सहः परस्मैपदाय राज्ञातियुधिष्ठिरेण । अज्ञाय्यरण्येतिलवत्तदन्यस्त्वक्सारवचान्तरसार एव ॥१२॥
१२. अतियुधिष्ठिरेण सत्यभापित्वादिगुणैयुधिष्ठिरमतिकान्तेन राज्ञा __ मूलराजेन स कुमारः परस्मायन्यस्मै शत्रुसंवन्धिने पदाय राज्यरूपाय
स्थानाय सहः समर्थोज्ञायि । पूर्वोक्तसर्वनृपगुणोपेतत्वाच्छत्रुलक्ष्मीग्रहणसमर्थो ज्ञात इत्यर्थः । यथा शेष आत्मनेपदोपयुक्तादन्यो भूर्वादिर्धातुः परस्मैपदाय सर्वविभक्त्याद्यवचननवकशतृक्कसुप्रत्ययेभ्यः सहो ज्ञायते । तदन्यश्चामुण्डराजादपरस्त्वरण्येतिलवदरण्येतिलाख्यवनधान्यभेदवत्त्वक्सारवञ्च वंशवश्चान्तर्मध्येसार एवाज्ञायि ।।
स कीर्तिमुक्तात्वचिसारकः स्तूपेशाणदैर्दापदिमाषिकैश्च । स्स गीयते यूथपशुप्रदैश्च स्तम्बेरमौजाः खचराधिपश्रीः ॥१३॥
१३. स कुमारः। स्तूपो गवादिराशिः। शाणः स्वर्णमाषचतुष्टयम् । स्तूपे स्तूपे शाणो देयः । वृत्तौ वीप्साया दानस्य चान्तर्भावः । स्तूपेशाणः करभेदस्तं ददति ये तैर्दापदिमाषिकैश्च । हपदि दृषदि माप: पञ्चगुसो देयो दृपदिमापः करभेदस्तत्र नियुक्तश्च । यूथं तिरश्चां जातम् । यूथे यूथे पशुर्देयो यूथपशुः करभेदस्तं प्रदति ये तैश्च करपीडाद्यभावेन होगीयते स्म । कीदृशः । स्तम्बरमौजा गजवलः । तथा खचराधिपश्रीरिन्द्रतुल्यलक्ष्मीकः । तथा कीर्तिमुक्तात्वचिसारको यशोमुक्ताफलेप्वज्ञातवंशतुल्यः । वंशो हि मुक्तायोनिर्वर्ण्यते । यदुक्तम् ।
हरितमस्तकदन्तौ तु दंष्ट्रा शुनवरायोः ।
मेघो भुजगमो वेणुमत्स्यो गौक्तिकयोनयः । इति ॥ १ ए वी सी कस्तू. २ ए सी दाई १ए सी टी . २ वी न्यो वादि.
-