________________
४५०
व्याश्रयमहाकाव्ये [चामुण्डराजः] स ब्राह्मणाच्छंसिजनेन्तिकादागते हिमाद्रेस्तपमाकृतोर्जे । त्यक्तान्यकर्मा सहसाकृतोत्थोम्भसाकृता|भिमतान्यदत्त ॥९॥
९. ब्राह्मणाच्छंसिजने ऋत्विग्विशेषलोकविषये से कुमारोभिमतानि धनादीन्यदत्त । तदिच्छानुसारेणादादित्यर्थः । यतस्तपसा कृतास्तपश्चरणेन विहिता ऊर्जा व्योमगमनादयः शक्तयो यस्य तस्मिंस्तथा हिमाद्रेरन्तिकादागते । औदार्योत्थकीर्तिश्रवणाहूरदेशान्तरेभ्योपि चामुण्डराजसमीपमायात इत्यर्थः । कीहक्सन् । सहसाकृतोत्थः संभ्रमेण झटिति विहिताभ्युत्थानः । तथा त्यकान्यकर्मा मुक्तव्यापारान्तरः । तथाम्भसाकृता? जैलेन विहितपादशौचाद्युपचारः॥ नं तेन किं चित्तमसाकृतं वौजसाकृतं वा विकृतं प्रजायाम् । पुंसानुजायां नु यदञ्जसाचो दोपावलोके जनुपान्धभावः॥१०॥ १०. तेन कुमारेण प्रजायां लोकविषये पुंसानुजायां नु पुंसा करणेन पश्चाजातायामिव लघुभगिन्यामिवेत्यर्थः । किचित्स्तोकमपि विकृतं विकारो न वा तमसाकृतमज्ञानेन कोपेन वा कृतं न वौजसाकृतं बलात्कारेण कृतम् । यद्यस्मात्तेन प्रजायां विषये पुंसानुजायामिव दोपावलोके जनुपान्धभाव आजन्मान्धत्वमसात्तः स्नेहेनागीकृतः । अथ घ या प्रजापत्यं तस्यां स्नेहादोषावलोकनाभावेन न केनचिकि. चिद्विकृतं वमसा वौजसा वा क्रियत इत्युक्तिः ।।
अन्तिकादागते । अत्र "भसस्वे रसेः" [१०] इति से लुप् ॥
१ ए सी वोजे । २ सी न केचि.
-
१एसी ने रवि. २ सी स सकु. ३ सी दाते I. ४ सी 'यान्त ५ ए सी डी जनेन, ६ सी 'कृता म.७ सी "युक्ति ।. ८ यी से न मु.