________________
४२२
द्याश्रयमहाकाव्ये [मूलराजः] मुञ्चामुं क्रोधमानौ च लाभालाभं स्मरात्मनः । ___ सुखदुःखौ भजेद्भावौ लाभालाभौ हि चिन्तयन् ॥१०॥
१०८. हे राजन्नमुं प्राहारिं क्रोधमानौ च कोपाहंकारौ च मुच तथात्मनो लाभालाभं स्मर । एवं कुर्वतो मम लाभोलाभो वेति परिभावय । हि यस्माल्लाभालाभौ चिन्तयन्परिभावयन्सुखदुःखौ सुखदुःखहेतू भावौ पदार्थों भजेत् । लाभार्थमलाभपरिहाराय च सुखहेत्वर्थवैदःखहेतुमप्यर्थमङ्गीकरोतीत्यर्थः । तस्माद्धाहारेर्मोचनं स्वस्य ससैन्यस्यानेकसंपत्तिहेतुत्वाल्लाभकारणममोचनं तु भयहेतुत्वादलाभकारणं परिभाव्य दुष्करमपि प्राहारिमोचनं कुर्विति तात्पर्यार्थः ॥
लामालाभम् लाभालाभौ । अत्र 'विरोधिनाम्" [१३०] इत्यादिना दन्दो वैकार्थः ॥ विरोधिनामिति किम् । क्रोधमानौ । अद्रव्याणामिति किम् । सुखदुःखौ भावौ ॥
अथाश्ववडवाविच्छेबद्धाश्ववडवं न्विमम् । तत्वे पूर्वापरे ब्रूहि भ्रूमः पूर्वापरं युधि ॥ १०९॥
१०९. अश्ववडवं नु तुरंगतुरङ्गयाविवामुं प्राहारि बढाथ यद्य__ श्ववडवौ तुरगतुरङ्गयौ । उपलक्षणत्वाद्धस्तिरत्नस्वर्णादिदण्डं चेच्छे:
ञ्छसि तत्तदा स्वे आत्मीये पूर्वापरे आद्यन्ते पूर्वजान् भ्रातृपुत्रपौत्रादि पाश्चात्यं स्वसंतानं च कथय त्वद्वशे य. ग्राहारेर्दण्डं जप्राह यो प्रहीध्यति च तो प्रकटयेत्यर्थः । इदमुक्तं भवति । मयि सति तव वंशे स कोपि नाभून भविष्यति च यो ग्राहारेर्दण्डं गृहीतवाने ग्रहीष्यति वा ।
१ सी वो पादा. २ सी हाय. ३ बी 'वदुख. ४ डी वाहोभ. ५ सी सातु. ६बी दि पश्चा. ७डी शो यो'. ८एसी योर्याहा. १९ गृही.