________________
[.३.१.१२.) पथमः सर्गः।
४२१ तत्सितम् सितानि । इत्यत्र "क्लीवम्" [१२८] इत्यादिना ही शिष्यते कमेकार्य वा
मूल पुष्यपुनर्वस्वोश्चन्द्रस्तेद्योद्रणे मयि ।
यन्मे ग्राहारेश्च तिष्यपुनर्वस्वोर्नु नान्तरम् ॥ १० ॥ १०७. हे मूल मूलराज "ते लुग्वा" [३.२.१०८] इत्युत्तरपदलोपः । अनेन च संबोधनेनास्य मलनक्षत्रजातत्वमुक्तम् । मूलजातानामेव हि प्रायेण नामादौ मूलशब्दः स्यात् । मय्युद्रणे रणायोद्यतेद्य ते तव चन्द्रो वर्तते । क । पुष्यपुनर्वस्वोः । अत्र पुनर्वस्वन्त्यैकपाद पुनर्वसुशब्दः । पुण्यश्च पुनर्वसू च पुष्यपुनर्वसू तयोः । उपश्लेषसप्तमीयम् । पुष्यपुनर्वमुभ्या संयुक्त इत्यर्थः । अष्टमश्चन्द्र इत्यर्थः । मूलपूर्वाषाढोत्तराषाढापाद एको धनुरिति वचनान्मूलजातस्य राज्ञो धनू राशिः । पुनर्वसुपाद ऐकः पुष्याश्वेषाश्च कर्क इत्युक्तेः पुनर्वस्वन्त्यैकपादपुष्याश्लेषायुकश्चन्द्रः कर्कराशिस्थो धनूराशेश्च कोष्टम इति तत्स्थश्चन्द्रोप्यष्टमः । अष्टमे प्राणसंदेह इत्युक्तेश्च तवाद्य प्राणसंदेह इति तात्पर्यम् । स्वस्योद्रणत्वे हेतुमाह । यदित्यादि । यद्येस्माद्धेतोमें प्राहारश्च नान्तरं न विशेषो मिथोन्तरङ्गमैत्र्यावयोरेक एवात्मेत्यर्थः । अत्रैव शब्दश्लेषोपमामाह । तिष्यपुनर्वस्वोर्नु यथा पुष्यपुनर्वसुनक्षत्रयोर्व्यवधायकान्यनक्षत्राभावेनान्तरं व्यवधानं न स्यात् ।।
पुष्यपुनर्वखो । तिष्यपुनर्वस्वोः । इत्यत्र "पुष्या" [१२९] इत्यादिना पुनसुर्यर्थ एकार्यः स्यात् ॥ १ ए सी डी स्वोचन्द्र १ए सी च पुण्यपुनर्वसू त'. २ बी . । . ३ ए सी सी एक ४सी काों. ५सी पममाडे. ६एसी षो मियोन्तरं न विशेषो मि. बीसम्बर्ष.