________________
[१० ३.१.११०.1 पञ्चमः सर्गः।
४११ कतरकठः कतमौत्सस्ते ज्ञातोस्मि किनृप। इत्याक्षिपन्तावन्योन्यमयुध्येतामुभौ नृपौ ।। ८८ ॥ ८८. उभौ नृपावन्योन्यमयुध्येताम् । किंभूतौ सन्तौ । अन्योन्यमाक्षिपन्तौ तर्जयन्तौ । कथमित्याह । हे किंनृप कुत्सितभूप कतरकठः कतैमौत्सश्च द्वयोः कठयोर्मध्ये को नाम कठः कठप्रोक्तवेदाध्यायी द्विजभेदो वहूनामुत्सानां मध्ये को नामौत्सश्चोत्सस्यापत्यं मुनिभेदश्च । भीरुत्वादिधभैरस्म्यहं ते त्वया ज्ञातो ज्ञायमानोस्मि । "ज्ञानेच्छा" [५.२.९२] इत्यादिनासति कोत एवं त इत्यत्र कर्तरि षष्ठी। "कयोरसदाधारे" [२.२.९१] इत्यत्र कश्पध्या अनिषिद्धत्वादिति ॥ कतरकठः । कतमौत्सः । इत्यन्न "कतर" [१०९] इत्यादिना कर्मधारयः॥ किंनृप । इत्यत्र " किं क्षेपे" [20] इति कर्मधारयः ॥
इभ्यपोटेभ्ययुवतिवत्तस्थुर्दूरतस्तयोः।
वृता हयकतिपयैर्गजस्तोकैश्च भूभुजः ॥ ८९ ॥ ८८९. हया ये कतिपयास्तैहयकतिपयैरल्पाश्र्गजस्तोकैश्चाल्पगजैश्च वृत्ता भूभुजस्तदा रणकर्मानुपयोगित्वात्तयोर्दूरतस्तस्थुः । इभ्यपोटेभ्ययुवतिवदिभ्या हस्तिन्यः स्त्रीजातिभेदः । कामशास्त्रे हि पीनस्तनत्वसूक्ष्माक्षत्वादिहस्तिनीधर्मोपेता स्त्री हस्तिनीत्युच्यते । पुरुषवेषधारिण्यः स्त्रियः पोटाः । गर्भ एव दास्यं प्रौप्ता वोभयन्यजना वा भुजिध्यदास्यो वा । तथेभ्या हस्तिन्यः स्त्रीजातिभेदः करेणव एव वा ।
१ सी स्मि क नृ. २ ए नृप... १ डी स्तदा ।.
१ ए सी ध्येता. किं. २ बी तमोत्स'. २ ए सी कण्ठयो. ४ ५ सी नासोत्स. ५ सी व म. ६प सीडी कयै. ७एसी श्वैगन. ८ ए सी भेदा का .बी भेदाः का, ९एसी क्ष्माकृत्वा १५ बी पेसा खी. ११ सी प्रावाम.