________________
४०९
है. ३.१.१.४.] पथमः सर्गः।
क्षत्रखेटः । इत्यत्र "निन्” [११०] इत्यादिना कर्मधारयः ॥ अपापाचरिति किम् । पापदैत्यः । अणकयोदृमिः॥
शस्त्रीश्यामः । इत्यत्र "उपमानं सामान्यैः" [१०] इति कर्मधारयः॥ नृव्याघ्रः । नृसिहः । इत्यत्र "उपमेय" [१०२] इत्यादिना कर्मधारयः॥ पूर्वपुरुषः । अपरार्कः । प्रथमदैत्यम् । चरमासुरम् । अजघन्यौजसा । असमानरण । मध्यलोक । मध्यमपार्थ । वीरपुमान् । इत्यत्र "पूर्वापर"[१०३] इत्यादिना कर्मधारयः। "विशेषणं विशेष्येण" [९६] इत्यादिनैव सिद्धे "स्पर्द्ध" [७.४.११९] परम् इति पूर्वनिपातस्य विषयप्रदर्शनार्थमद्रव्यवाचिनोरनियमेन पूर्वापरभावप्रसक्ती पूर्वनिपातनियमाथै च वचनम् । तेन वीरपूर्वाः ॥
श्रेणिकृताः । पूगकृताः । श्रेणिमतः । पूगमतः । इत्यन्त्र “श्रेण्यादि" [१०४] इत्यादिना कर्मधारयः॥
कृताकृतरणेप्यस्मिन्क्लिष्टाक्लिशितमूर्तयः। इषुपीतावपीतासा भ्रमुश्छाताच्छिताः परे ॥ ८५॥ ८५. अस्मिन्मूलराजे किंचित्कृतं किंचिदकृतं च रणं येन तस्मिन्सति परे भ्रमुर्घातविह्वलतया भ्रमि प्राप्ता इत्यर्थः । किंभूताः सन्तः। छाताच्छिताः शरैः किंचिच्छिन्नाश्च किंचिदच्छिन्नाश्चात एवावहीनं पीतमवपीतमपीतप्रायमित्यर्थः । इषुभिः शरैः किंचित्पीतं च किंचिदवपीतं चास्त्रं रक्तं येषां तेत एव च क्लिष्टालिशितमूर्तयः किंचित्पी. डितकिंचिदपीडिताङ्गाः ॥
१५ सीता चा भेमु.
१ ए सामन्यैः २ सी रुषाः । अ. ३ ए सी ममध्य . ४ ए सी डी 'शेषेण°. ५ वी व.६ ए सी डी मत । पृ.७५ सी चिकृत. ८ ए सी अमि प्रा.९ ए सी पीरता.